________________ ते विद्यागुरवः सन्तु, सदा मह्यं वरप्रदाः / शब्दशास्त्रादिसम्पत्ति-र्येभ्यो लब्धा यथामति // 104 // गणाधिपश्रीजिनचन्द्रसूरीश धर्मराज्ये सति सद्गुरुणाम् / श्रीवाचकार्याऽमृतधर्मनाम्नां, शिष्येण सर्वज्ञमतप्रियेण // 105 // क्षमादिकल्याणबुधा प्रमोदा- न्मालेव रम्या किल निर्मितेयम् / सूक्तादिरत्नावलिकोत्तमानां, कण्ठे स्थिता नन्दतु नित्यमेव // 106 // यत्किञ्चिदुत्सूत्रमयप्रयोगं, मया विमोहादिह सन्निबद्धम् / शोध्यं सुधीभिस्तदमन्दभावाद्विधाय सत्यं मयि सुप्रसादम् / / 107 / / निष्पन्नमानन्दमयैर्जिनाद्यैः समाग्रिमैः शुद्धपदैरवक्रम् / हीङ्कारदीप्रं श्रितसर्वशक्रं, श्रीसिद्धचक्रं शरणं ममास्तु // 108 // // 1 // - कविश्रीहरिविरचितः / ॥कर्पूर प्रकरः // कर्पूरप्रकरः शमामृतरसे वक्त्रेन्दुचन्द्रातपः, शुक्लध्यानतरुप्रसूननिचयः पुण्याब्धिफेनोदयः / मुक्तिश्रीकरपीडनेऽच्छसिचयो वाक्कामधेनोः पयो, व्याख्यालक्ष्यजिनेशपेशलरदज्योतिश्चयः पातु वः भव्या लब्ध्वार्यदेशं कथमपि नृभवं सत्कुलं साधुसङ्गं, बोधं देवादिशक्ती: कुरुत शमयतिश्रावकत्वव्रतानि / सप्तक्षेत्रीजिना नयविनयसुवैराग्यदानादिपुष्टि, शब्दद्यूतक्रुधादेर्जयमपि सुकृताहेषु सत्कर्म मुक्त्यै कोऽपि स्याल्लघुकर्मकः सुकृतधीर्देशेऽप्यनार्ये स्वतस्तस्याप्याकुमारवद् गुणचयः किंत्वार्यदेशाश्रयात् / क्षाराब्धौ शशिनोऽथ कौस्तुभमणे:साक्षी:कुतो याऽभवत्, गङ्गाशालिनि शम्भुमूधि कमलागारे हरेश्चोरसि // 2 // // 3 // CG