________________ दुरात्मनाऽनेन मदङ्गसङ्ग- ममुञ्चता सर्वशुभक्रियासु। निरन्तरं विघ्नमकारि नाथ !, कस्याग्रतोऽहं वद पूत्करोमि ! // 81 // चारित्रमोहेन मयि व्यधायि, पुंस्क्लीबताऽनेकविडम्बितं यत् / तत्सर्ववेदिन् ! स्वयमेव वेत्सि, कियब्रुवेऽहं भवतः पुरस्तात् 82 श्लाघां स्वकीयां परकीयनिन्दां, निशम्य सम्यग् हृदि हर्षितः स्याम् / वाण्या च ते कर्तुमपि प्रवर्ते, तद्वैपरीत्ये विमना भवेयम् // 83 // स्वामिन् ! मया सन्नियमाः स्वबुद्धया, गृहीतमुक्ता बहुशः प्रमादात् / न चैव तेषां विहिता विशुद्धिः, कथं भविष्यामि ? सुनिर्वृतोऽहम् 84 धर्मोपदेशैविविधैजिनेश !, कृता परेषामनुरञ्जनैव / न चात्मनो नित्यविधिक्रियाऽपि, यद्भावशून्या विदधे विमोहात् // 85 / / द्वे विंशती विश्वप ! किञ्चिदूने, वर्षाणि सम्यग् वयसो गतानि / परं विभोऽद्यापि न सन्निवृत्ता, शिशुत्वबुद्धेः प्रकृतिर्मदीया // 86 // इत्थं विभाव्य स्वकदुःस्वभावं, दुरासदं सिद्धिपदं विशङ्के / परं त्वदन्याधिपनि:स्पृहत्वं, ममास्ति शुद्धं तदवाप्तिबीजम् // 87 // नाथाम्यथो नाथ ! तथा विधेहि, यथा व्रजेयुर्मम सर्वदोषाः / पुनर्भवद्भक्तिभृतो भवेयं, क्षमादिकल्याणगुणैर्युतोऽहम् // 88 // त्वरेते चक्षुषी नित्यं, श्रीमदर्शनहेतवे / मनस्तु सहते नैव, विरहं क्षणमप्यदः . // 89 // श्रीमतां दर्शनं लोके, दुर्लभं खलु वर्तते / . . यथा तथा न सम्प्राप्तिः, सन्निधीनां भवेद्यतः // 90 // विभो ! भवदर्शनमन्तरेण, मनोऽस्मदीयं न हि याति तुष्टिम् / कथं सहस्रांशुकरप्रचारा- दृते विबुद्ध्येत पयोजवृन्दम् // 91 / / घनाघनानां खलु केकिनो यथा, यथा पुनश्चन्द्ररुचां चकोरकाः / निजैर्गुणै रञ्जितशिष्टदेहिनां, तथा स्मरामो भवतां निरन्तरम् // 92 / /