________________ चण्डालरूपविदितः किल पक्षिवृन्दे, काकस्तथैव पशुराशिषु रासभश्च / कोपस्तथा सुमुनिषु स्फुटमाप्नुवन्त्ये-ते निन्दकस्य कुमते: समतां न चैव 70 ये केऽप्यशुद्धपरिणामभृतोऽसुमन्तः, कुर्वन्ति देव-गुरु-धर्मजुगुप्सनानि / ते दुर्गता निजकुलक्षयकारिणश्च, स्युर्दुष्टकुष्ठकलिताः प्रतिजन्मनिन्द्याः 71 तस्मान्न कस्यचिदपुण्यवतोऽपि पुंसो, निन्दा विधातुमुचिता भुवि सज्जनानाम् / न्याय्या गुणग्रहणबुद्धिरतिस्फुरन्ती, . सर्वत्र दोषहरणी हरिवत्सदैव // 72 // नमोऽस्तु विश्वत्रयभूषणाय, समस्तदुःखाम्बुधिशोषणाय। ... सीमन्धरस्वामिवर ! प्रभूतो- द्विभूतिकृद्दर्शन ! देव ! तुभ्यम् // 73 // निश्शेषदुष्कर्मनिरासप्राप्त- सज्ज्ञानमुख्यात्मगुणप्रपञ्चः / विज्ञप्तिकां भक्तियुतां व्रतीश !, निशम्य निस्तारय मां भवाब्धेः 74 निश्छद्मतां चेतसि सन्निधाय, मनाग्यथावस्थितमात्मरूपम् / इह स्थितोऽप्याशु निजात्मशुद्ध्यै, भवत्पुरः सानुशयो ब्रवीमि॥ 75 // स्वामिन् ! मयेदं शुभकर्मयोगात्, कुतोऽपि मानुष्यभवाद्यवाप्तम् / श्रद्धाऽपि शुद्धा भवदुक्तवाचां, शङ्का तथाऽप्येति कदाचिदार्य ! 76 गुर्वादियोगान्मुनिवेषयुक्ता, स्वल्पा कथञ्चिद्विरतिः प्रपन्ना / तथापि योगत्रितयी न वश्या, नियम्यमानाऽपि भवत्यवश्यम् / / 77 // स्वल्पे निमित्ते समुपस्थितेऽपि, सद्यः कषाया उदयन्ति सर्वे / भवद्वचोऽनुस्मरणात्परं ते, द्विषोऽपि शाम्यन्त्यचिरेण देव ! // 78 // पञ्चप्रकारा विषया दुरन्ता, जाज्वल्यमानानलतुल्यरूपाः / मुहुर्मुहुाँ प्रविहातुकाम- मपि स्पृशन्तीह किमीश ! कुर्याम् ? 79 निद्राप्रमादो भुवि दुर्जयारि-र्द्धर्माभिधं ध्यानधनं मदीयम्। सुदुर्लभं लुम्पति नित्यमेव, क्षणं न मुञ्चत्युपकण्ठमीश! // 8 //