________________ पुंसः श्रोत्रयुगे तदाऽक्षियुगले द्वे द्वे स्वकीयाङ्गली, एकामोष्ठपदे दघाति सहसा ब्रूते च तूष्णी भज। // 34 // कालाधुपेता भवितव्यता किल, प्रायेण लोके प्रबला विलोक्यते / यद्वीरतीर्थेशपुरः कुशिष्यको, व्यधान्महामुन्यपवर्जनादिकम् // 35 // कालः स्वभावो भवितव्यता च, समुद्यमः पूर्वकृतं च कर्म / सदैव चैतत्समवायतोऽस्मिन्, लोकत्रये स्यात्समकार्यसिद्धिः // 36 / / यथा जाज्वल्यमानोऽग्नि-रिन्धनेभ्यो न तृप्यति / तथाऽजितेन्द्रियग्रामो, विषयेभ्यो न तृप्तिमाक् // 37 // बलिष्ठं खलु तत्रापि, दुर्जयं रसनेन्द्रियम् / कुजल्पन-कदास्वाद्या-स्वादैर्दुर्ललितं हि यत् / / 38 // अजित्वैकैकमप्यक्षं, गज-मीन-द्विरेफकाः / पतङ्ग-हरिणा यान्ति, महाति किमु सर्वतः ? // 39 // तत्त्वज्ञानकशाघातै-विना नो वश्यतां व्रजेत् / दुर्दमाश्वनिभः स्रोतो-ग्रामः कस्यापि देहिनः जयन्महौजस्विजनानपीह, प्रायेण सर्वत्र चरेत्प्रसह्य / यत्क्लीबता तन्मनसः कथं स्यात् ? सुशब्दशास्त्रप्रथितेति शङ्के॥ 41 // यत्कार्यमार्यैः परिभाषणीयं, न स्वप्नमात्रेऽपि निषेवणीयम् / तदेव दुरितयाऽऽशुचेती, मुहुर्मुहुः सेवितुमारभेत // 42 // चला-ऽचले चेतसि सम्भवन्ति, रागादयो दुःखनिधानभूताः / ततश्चलत्वव्यपनोदहेतु-रध्यात्मयोगः सततं विधेयः // 43 // इतस्ततश्चंक्रमणप्रवृत्तं, मनश्चलं मर्कटतोऽपि नित्यम् / नियम्य सद्यः स्थिरतां नयन्ति, स्वतत्त्वतर्केण त एव धन्याः // 44 // मद्यं कषाया विषयाः प्रकामं, पुनः प्रमीला विकथास्तथेति / पञ्चप्रमादी परितो निषेध्या, सुबुद्धिभिः शुद्धिमवाप्तुकामैः // 45 // 93 // 40 //