________________ अथवाऽलं विषादेन, रे जीव ! स्वगुणान् भज / निजकार्यप्रवृत्तानां, सन्त्येते ह्युपकारिणः // 24 // स दुर्जयः कामरिपुर्जनानामधिष्ठितः कायमसाधुकाम्यः / प्रवर्तनादंहसि यः क्षणेन, बुधेश्वरानप्यबुधीकरोति // 25 // कदर्थिता येन बहुप्रकारै-विरञ्चि-रुद्रादिसुराः प्रतीताः / जगत्त्रयीनाथजिनैर्विनाऽन्यो, न कोऽप्यलं तं मदनं विजेतुम् // 26 // मृगीदृशां नेत्र-मुख-स्तनादिकं, प्रदेशमाश्रित्य महाबलानपि। क्षणोति पुंसः खलु कामिनो भृशं, महातरस्वी कमनो निरन्तरम् // 27 // विलोक्यतां मातरिदं गडुद्वयं, विनिर्गतं में हृदये न वेदना। एषः स्वभावोऽस्य तु पुत्रि ! कामुको, यो वीक्षते तस्य भवेत्सुवेदना // 28 वशा-पशु-क्लीबयुतावसथ्ये, वसन्ति नो ब्रह्मरता विनीताः / कथास्तदीया न कदाऽपि कुर्युविरूपश्रृङ्गाररसाधुपेताः // 29 // पुनर्निषीदन्ति न चैव नार्याऽऽसने न तासां रुचिरेन्द्रियाणि / पश्यन्ति कुड्यन्तरवासमीड्यस्ताभिः समं ते परिवर्जयन्ति // 30 // पूर्वानुभूताः सुरतादिलीला:, स्मरन्ति नो ब्रह्मविघातभीताः / न भुञ्जते प्रस्रवदाप्यबिन्दुं, प्रणीतमाहारमनङ्गहेतुम् // 31 // मात्राधिकाहारमपि त्यजन्ति, कुर्वन्ति नो देहविभूषिकां च / इत्थं सुधीभिर्नवभिः प्रकारैर्ब्रह्मव्रतं दुष्करकारि सेव्यम् // 32 // जम्बूद्वीपगताः समस्तभरतक्षोणीविजित्य स्वयं, भास्वदेवसहस्रसेवितपदश्चक्री सुभूमाभिधः / दुष्कर्मोदयतो विवृद्धबहुलाशंसाऽभिभूतोच्चलो, मध्येबार्द्धिजलं यमज्जदचलं भावि ध्रुवं प्राणिनाम् // 33 // अस्त्येको भवितव्यनामपुरुषः पञ्चाङ्गुलीभिर्युतः / कार्यं कारयितुं स वाञ्छति यदा केनाप्यहो ! कस्यचित् / 2