________________ यस्य ज्ञान-दयासिन्धो-दर्शनं श्रेयसे ध्रुवम् / स श्रीमान् पार्श्वतीर्थेशो निषेव्यः सततं सताम् // 12 // वामासूनोर्यशःपुजै-रगाधस्यानघा गुणाः / स्मर्यन्ते येन स स्मार्यो, भवेत् प्राचीनबहिषाम् // 13 // विहाय विषयासक्तान्, सांसारिकसुरा-ऽसुरान् / सेव्यतामक्षयो धीराः !, पार्श्वदेवोऽपरः प्रभुः ." // 14 // जिताः सर्वार्थदानेन, येन कल्पद्रुमा अपि / भवेदभ्यर्चितो लोके, स श्रिये चामृताय च // 15 // संस्तुतो मधुरश्लोकै-जैनलाभप्रदायकः / कल्याणकारको भूयात्, श्रीमान् शर्खेश्वरप्रभुः // 16 // मदपूरितमानसवृत्तिमतां, मदनोन्मथित्तोत्तमतत्त्वधियाम् / भविनामतिलोभवतां सततं, कंजपः? कृतपः? क्वसमाधिविधिः ? 17 अयि भव्य ! यदीच्छसि चारु फलं, गुणशाखिविवर्द्धनहेतुमलम् / निजदेहभुवि व्रतवारलस-ज्जलमानय मानय मे वचनम् // 18 // ये प्राणिनः कर्मगुरुत्वयोगाच्छ्रुत्वाऽपि जैनेन्द्रवचो विशुद्धम्। मिथ्यात्वमायान्ति गुणाशि तेषामयं शशी वह्निकणान् प्रसूते // 19 // परस्वकाङ्क्षया जीवैः, परदारसिया। अपि मानसमात्मीयं, निर्मलं मलिनीकृतम् // 20 // सद्भावं शिथिलीकुर्वन्, पापबुद्धि प्रवर्द्धयन् / अहो ! विलोक्यतां लोका ! हीनः कालोऽयमापतत् // 21 // यत्र दानादिको धर्मः, प्रायः सर्वोऽपि दोषभाक् / दृश्यते मान-कालुष्य-कैतवेच्छादियोगतः // 22 // अहो ! कालस्य माहात्म्यं, निन्द्यन्ते व्यवहारिणः / प्रमादिनः प्रशस्यन्ते, पिशुना नीचवृत्तयः // 23 // 1