________________ पाठकप्रवरश्रीक्षमाकल्याणगणिविरचिता ॥सूक्त-रत्नावली // ध्यायं ध्यायं जिनाधीशं, स्मारं स्मारं गुरोर्वचः .:. सूक्तरत्नावली कुर्वे, धर्माद्यर्थावबोधिकाम् . // 1 // जीयाज्जगत्तारकतीर्थमुख्यः, शत्रुञ्जयो नाम नगाधिराजः / यत्रादिमस्तीर्थपतिः समागान्मुहुर्मुहुः साधुगणाश्च सिद्धाः // 2 // नेमीशदीक्षा-वरबोध-मुक्तिस्थानं प्रधानं गिरनारसंज्ञम् / जिनालयैर्मण्डितमबुंदाख्यं, प्रोत्तुङ्गश्रृङ्गं च गिरिं प्रणौमि // 3 // स्तुवे चतुर्विंशतितीर्थनाथा-नाद्यार्हतः सिद्धिपदे गिरीन्द्रे। अष्टापदे द्वादशमन्तिमञ्च चम्पा-सुपुर्योर्जिनमानताङ्गः // 4 // यत्राजितेशप्रमुखा जिनेश्वराः, सुनिता विंशतिरात्मशोधनात् / .. सम्मेतशैलं तमवन्ध्यदर्शनं, दृष्ट्वाऽऽत्मदृष्टी प्रकरोमि सत्फले // 5 // लसद्विपञ्चाशदधीश्वरालयै-विराजिते श्रीमति शाश्वताश्रये / नन्दीश्वरे द्वीपंवरे जिनेश्वरान्, वन्दे प्रमोदाद्भवभीतिशान्तये // 6 // अहो अहो !! चेतन ! चेतनत्वं, निजं स्मराशु स्मरणीयसत्त्वम्। अवाप्य मानुष्यमिदं दुरापं, विधेहि मा व्यर्थमपार्थयोगात् // 7 // स्याद्वादवादिप्रवरप्रकाशितः, सनातनः सर्वतमोविवर्जितः / जगत्त्रयीजन्तुहितावहस्सतां, स्वधर्म एव श्रयणीय एषकः // 8 // समाश्रवविनिर्मुक्तो, ऽनादीनवगुणान्वितः / सर्वसत्त्वहितः साधुः, सेव्योऽसेव्यो दुरात्मनाम् यद्भूघनस्थमतुलं, निर्विकृतं नलिनपञ्चकं वीक्ष्य / . कमलत्रयी प्रमुदिता, भवति सतां देव एवासौ // 10 // इयं तत्त्वरत्नत्रयी विश्ववन्द्या, समाराधनीया सदा शुद्धभावैः / यतः सच्चिदानन्दकल्याणसम्पत्, समुल्लासिनी सम्पनीपद्यते वः 11 // 9 // so