________________ // 432 // / / 433 // // 434 / / // 435 // // 436 // // 437 // स्यात् परादाप्तवित्तोऽपि, महस्वी परकृत्यकृत् / न प्रदीपः प्रकाशाय खेचराप्तप्रभोऽपि किम् ? मिलिता अपि निःसारः, प्रजायन्ते पुनर्द्विधा / जलैर्बद्धेषु यथूली,-मोदकेष्वेष विस्तरः नीचो मुञ्चति नीचत्वं, वसन्नान्तः सतामपि / कलावन्मण्डपे तिष्ठन्, मृगो नौज्झत् कुरङ्गताम् कुस्थाने सङ्गतिर्नूनं, व्यसनव्यापृतात्मनाम् / मधुपानां रजःस्वेव, वसतिर्ददृशे न कैः ? किं करोति सतां सङ्गः, पातधर्माधिकारिणाम् ? / पश्य मुक्ताश्रिताः कान्ता,-कुचाः श्वेतेतराननाः धत्ते चित्ते न संवासं, विवेको जडवासिनाम् / भजत्यम्भोजिनी हंसः, पवित्रोऽपि रजस्वलाम् शुभाशुभविचारोऽपि, न भवेत् षण्ढचेतसि / मासिकपीशानः, कलाकेलिमदीदहत् कुकुलं हन्ति सबुद्धि, नानीतां शुभकर्मभिः / निषेवते दिवा नक्तं, गोपेन्द्रोऽपि रसाधिपम् महत्यपि भवेत्प्रायः, कुसङ्गाद्दोषसङ्गमः / कलावत्यपि जातोऽयं, कलङ्को विषवासतः परित्यागः कुसङ्गस्य, कृतिनामपि दुष्करः / / अस्ति स्थितिः सुरागारे, यतः सुमनसामपि निष्कृया अपि ............ वल्लभा वित्तशालिनः / जनार्दनोऽपि यज्जज्ञे, श्रीपतिर्जगतां प्रियः अपि प्रवयसां पुंसां, दुर्धरा ब्रह्मचारिता / सरोजजन्मा किं नासीत्, स्थविरोऽपि प्रजापतिः ? 53 // 438 // // 439 / / // 440 // // 441 // // 442 // // 443 //