________________ || 420 // // 421 // // 422 // // 423 // // 424 // // 425 // सयत्नाः सौवमाहात्म्य,-रक्षणेऽपि महाशयाः / यत्कृता स्वाम्बुरक्षायै, नालिकेरैस्त्रिधा वृतिः वस्तु दत्तं भवेद्रम्य,-मपि तुच्छं महात्मने / क्षारमप्यम्बु मेघाय, वितीर्णं वरमब्धिना या प्रवृत्तिर्भवेदाद्या, प्रसिद्धि समुपैति सा / कृष्णः कृष्णेतर: पक्षो, मुखे तमसि तेजसि महोऽन्यत्र स्थितं सिद्ध्यै, मृतस्याऽपि महस्विनः / नास्तस्याऽपि रवेर्भासः, किमालोकाय दीपकाः ? जीवैः प्रायेण जीवद्भि,-विपत्तिरभिभूयते / क्षीणभावो निराकारि, न किं कुमुदबन्धुना ? गुणाय समये क्रूर,-सङ्गोऽपि विशदात्मनाम् / दोषे स्याद् घोषपात्राणां, निहितः किं हुताशनः ? रागवन्तो बहिस्तुच्छा, भवन्त्यन्तश्च नीरसाः / अयमर्थः स्फुटं गुञ्जा,-फलेषु ददृशे न कैः ? .. वाल्लभ्यं न च कृत्येन, नावाल्लभ्यमकृत्यतः / बहुकार्येऽपि सा प्रीति,-र्न लोहे या च काञ्चने . स्वच्छात्माऽपि स्वकैस्त्यक्तो, लाघवं द्रुतमश्नुते / / न किं दध्नः पृथग्भूतं, नवनीतं तरत्यहो ? यादृशैः सङ्गतिः संपद्,-दीयते तादृगेव तैः / दत्तः कज्जलदुग्धाभ्यां, सङ्गात् स्वस्वकुलेऽम्भस:(?) प्रवृत्तिश्च निवृत्तिश्च, स्वयमेवाऽमलात्मनाम् / अब्धेरद्भिरागमनं, यानं च कृतमात्मना महः करोति किं तुच्छे, वस्तुनि स्थितिमागतम् ? / तेजःस्तोमः किमाप्नोति, माहात्म्यं काचखण्डगम् ? // 426 // // 427 / / // 428 // // 429 // // 430 // // 431 // પ૦