________________ // 360 // // 361 // // 362 / / // 363 // // 364 // // 365 // स्वल्पसत्त्वैरपि स्त्रीणां, पराभूतिर्न सह्यते / पक्षिणोऽपि प्रकुर्वन्ति, स्वकलत्रकृते कलिम् . द्विजिह्वा दम्भमुज्झन्ति, निजस्थाने समागताः / बिले बिलेशयाः प्राप्ताः, किं न मुञ्चन्ति जिह्मताम्? लघूनामपि केषाञ्चि,-दात्मवि................... / कृशाऽपि किं न कूष्माण्डी, दत्ते गुरुतरं फलम् ? संशये सम्पदां मानो,-नता एवासिताननाः / पयोऽस्तु माऽस्तु वा तौङ्ग्यं, तारुण्ये स्यादुरोजयोः सङ्गं श्यामात्मनां मुञ्च, पदमुच्चैर्यदीहसे / तैलं त्यक्तखलं श्रीमन्,-मूर्धानमधिरोहति भग्नता ज्ञायते सज्जी-भूतेऽपि शिथिलात्मनि / लाक्षासज्जोऽपि नाज्ञायि, भग्नोऽयमिति किं घटः ? धन्यात्मा भग्नभावोऽपि, भवति प्रीतिमान् पुनः / भूतोऽपि दलशः स्वर्ण,-कलश: सन्धिमेति यत् गते प्रसिद्धिमूलेऽपि, गुणे सा स्यात्.प्रभाभृताम् / सहस्रपात्त्विषां प्रेयान्, पादहीनोऽपि संमतः खेदिता अपि संशुद्धाः, स्युः परस्परसङ्गताः / मर्दिता अपि किं नोर्ण,-तन्तवो मिलिता मिथः ? दत्तं ज्योतिष्मते वित्तं, सद्यः संपद्यते श्रिये / . द्राग्दीपों निहिते स्नेहे, वस्तुवातं प्रकाशयेत् कुपात्रे निहिते शास्त्रे, नाधाराधेययोः शुभम् / कुम्भेऽप्यामे.जले न्यस्ते, नाशः स्यादुभयोरपि नाप्नोति द्युतिमान् मानं, विना सङ्गं लघीयसाम् / विना गुञ्जातुलां मूल्यं, क्वचित् काञ्चनमर्हति ? 47 // 366 // // 367 // // 368 / / // 369 // // 370 // // 371 //