________________ // 348 / / // 349 // // 350 // // 351 // // 352 // // 353 // चिह्नवत्त्वे समानेऽपि, लज्जाया बीजमाकृतिः / स्त्रीणां स्त्रीणां न लज्जा स्यात्, पुंसां पुसां च भूयसी धने गतेऽपि दौर्गत्यं, न कदाऽपि कलावताम् / प्रमीतेऽपि भुजङ्गे किं, वैधव्यं पणसुध्रुवाम् ? . ऐश्वर्यमूर्जदोजोभि,-घनैः परिजनैर्न च / एकोऽप्येणेशतां सिंहो, भुङ्क्ते नैणो मृगौघवान् दारेष्वेवादर: पुंसां, यत्र तत्राऽपि दृश्यते / तुल्येऽप्यर्थे वधूधाम्नि, विवोढुं यान्ति यद्वराः दोष्मान्नारिवधोद्युक्तः, परिवारमपेक्षते / . घ्नतः करिघटामासीत्, कः सिंहस्य परिच्छदः ? प्रभुता स्याददत्तैव, दोष्मतामतिशायिनी / आधिपत्यं मृगैर्दत्तं, किमु केसरिणामभूत् ? कोमलानामनाय, व्यापारः कठिनात्मनाम् / न स्याद्घमिर्घस्ट्टानां, कणानां दलनाय किम् ? येषां संपत्तयः प्राय,-स्तेषामेव विपत्तयः / हयेऽधिरोहः पुंसां स्यात्, पुंसां चांहिषु शृङ्खला . स्यात्तस्मिन्नेव संबन्धे, पृथग् नामाकृतेर्वशात् / यत्पितुः सोदरः काकः, स्वसा तस्य फईति च प्रायः सापदमेवानु,-सरन्ति नरमापदः / यत्कलङ्किनमेवेन्दु, क्षीणत्वमनुधावति अप्युत्तुङ्गा गते सारे, भवन्ति नतिकारिणः / न दृष्टा यौवने याते, नम्रता किमुरोजयोः ? महतामपि केषाञ्चित्, फलं नाडम्बरोचितम् / तुच्छं फलं न किं दृष्टं, सद्विस्तारोद्भटे वटे? - // 354 // // 355 // // 356 // // 357 // // 358 // // 359 // 4