________________ // 336 // // 337 // // 338 // // 339 // // 340 // // 341 // गतामवस्थां मा ध्याय, राज्ञि व्रतिनि योषिति / कौशेया भोजपूर्वा यत्, कृमिकर्दमलोमजाः अपि पूर्वसुखं गच्छ, त्युत्सवेऽप्यमहात्मनाम् / दत्तहर्षासु वर्षासु, नाऽर्काणां किमपत्रिता पापवान् संगतः पापैः, स्यान्महानर्थकारणम् / खरैरुत्थापितः पांशु,-विशेषात् किं न पुण्यहृत् ? अव्यक्ता अपि हृष्यन्ति, संरावरसशीलिताः / जहाति जननीगीतै,-र्न किं रुदितमर्भकः ? विधत्ते कृत्यमुग्राणां, तुच्छोऽपि तत्परिच्छदः / न हि फेनस्य सन्तुष्टिः, स्यात्तदीयैस्तुरैरपि ! कलिः कलिकृतां पार्वे, स्थितानामप्यभूतये / वंशसंघर्षभूरग्निः, किं दहेन्नाऽखिलं वनम् ? सुखचिह्नमपि स्थाने, प्राप्तमाह्लादयेज्जगत् / स्थितं किं कामकृन्नासीत्, स्मितं स्मितमुखीमुखे? गुरौ पूर्णेऽपि निर्बुद्धि,-स्तद्विद्यां लातुमक्षमः / अप्यब्धौ लेहनप्रह्वा, रसना रसनालिहाम् खलैरेव महात्मानः, क्रियन्ते रसनिर्भराः / आतपैरेव पच्यन्ते, यत्फलान्याम्रभूरूहाम् महोत्सवाय मन्यन्ते, पापिन: पापसंस्तवम् / किं निर्भरं न नृत्यन्ति, बहिणो विषवीक्षणात् ? समानत्वेऽपि भोगानां, विशेषः स्वस्वचिह्नयोः / भवेन्मैथुनतस्तृप्ति,-र्नराणां न च योषिताम् गुणदोषसमत्वेऽपि, गुणख्यातिर्महात्मनाम् / रत्नकर्करमातृत्वे, रत्नगर्भा वसुन्धरा .. . 45 // 342 // // 343 // // 344 // // 345 // // 346 // // 347 //