________________ // 324 // // 325 // // 326 // / // 327 // . // 328 // // 329 // क्वचिदाह्लादयेद्विश्व,-मपि जाड्यं कलावताम् / मुदे निशि न कि ग्रीष्मे, शीता अपि विधोः करा:? सुखचिह्नमपि स्थाना,-ऽभावाद् भवति कुत्सितम् / हसन् बाढस्वरेण स्या,-दपमानपदं पुमान् कृत्वाऽरेरपि विनयं, दुर्दशां गमयेत् सुधीः / यद्वेतसः सरित्पूरं, नम्रीभूयातिवाहयेत् यज्जातं तद् बभूवैव, का कार्या तत्प्रतिक्रिया ? / ब्रूहि भो ! मुण्डिते मूर्ध्नि, किं मुहूर्तावलोकनम् ? सुखं च दुःखमथवा, यद् भूतं मा स्म चिन्तय / - लोकोक्तिरपि यद्विप्रै,-नातीता वाच्यते तिथि: कायेनैव श्रियां हानौ, वल्लभास्तुङ्गमूर्तयः / अपि पुष्पफलाऽभावे, शाखाभिश्चन्दना मुदे लघूनां यत्र तत्राऽपि, निर्वृतिर्महतां न च / शशानां यत्र तत्राऽपि, यच्छाया न च हस्तिनाम् . नीचमध्योत्तमेषु स्या,-तुल्या दृग् विशदात्मनाम् / किं संक्रान्तिन शीतांशोः, कूटकूपपयोधिषु ? . मयाऽस्थापीति मावज्ञा,-स्पदं तेजस्विनां कृथाः / स्वयमुद्दीपितो दीपो, हतोऽङ्गुल्या न कि दहेत् ? - नाऽलं स्वार्थेऽपि शुद्धाः स्युः, परस्परमसङ्गताः / किं मिथो मिलनाभावे, दन्ताश्चर्वणचञ्चवः ? दुष्टधीर्वधितो यत्र, भवेत्तत्स्थाननाशकृत् / अग्निः प्रोद्दीपितो यत्र, तद्दाहे नास्त्यनिर्णयः इमाः स्त्रिय इतीमासु, मा स्म कुर्ववही(हे)लनम् / किमङ्गुलीविनाऽङ्गुष्ठः, कृत्यं कर्तुं किमप्यलम् ? 44 // 330 // // 331 // // 332 // // 333 // // 334 // // 335 //