________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // नासन्नेऽपि रतिः पापे, तुङ्गे दूरेऽपि चादरः / निष्कास्यते गृहादोतु,-र्वनाच्चानीयते करी गुणिसङ्गे कृते नून,-मन्याः पुण्योपलब्धयः / चीरे परिहितेऽन्येषां, शृङ्गाराणां परिग्रहः विनोपायेन वैदग्ध्यं, शिक्ष्यते सन्निधौ सताम् / मुधैवामोदलब्धिः स्या,-न्न किं सौगन्धिकापणे ? एकोऽपि सुमना दत्ते, यं गुणं तं न पार्थिवाः / एकपुष्पेण सौरभ्यं, यन्न रत्नशतेन तत् जातिसाम्येऽपि सर्वत्र, संपत्तिरतिरिच्यते / तरुत्वेऽप्यन्यवृक्षेभ्य,-श्चम्पको यद्विशिष्यते गुणमुक्ताः स्वयंपापाः, परच्छिद्रगवेषिणः / बाणा बाणासनान्मुक्ता, निदर्शनमिहाऽभवत् दौष्कर्य जायते तुङ्गा,-च्छ्रयतां न च मुञ्चताम् / . चिन्त्याऽत्र शैलशृङ्गेषु, क्रियाऽऽरोहावरोहयोः . सर्वशक्त्याश्रितोऽनर्थ,-हेतुः स्वोऽपि जडाशयः / स्यादन्त:पतितानां किं, कूपः स्वोऽपि न मृत्यवे ? यदागमे भवेवृद्धि,-स्तन्नाशे चार्तिरर्हति / यौवनेऽभ्युन्नतौ तस्मिन्, गते च पतितौ स्तनौ करोति गुणवानेवो,-पकारं सर्वदा सखे ! / . . ग्रीष्मे प्रावृषि शीते च, त्राणकृत् पट एव यत् ज्योतिष्मांश्छिद्रलीनोऽपि, स्यादणूनां प्रसिद्धये / यज्जालान्तरगे भानौ, ज्ञायन्ते रेणवोऽणवः लघीयसाऽपि सुहृदा, मिलितेन बलोन्नतिः / फूत्कारेण हि सप्ताचिः, प्राणपुष्टिं बिभर्ति यत् 43 // 318 // // 319 // // 320 // // 321 // // 322 // // 323 //