________________ गते सारे मृदूनां स्या,-दवस्थास्पदमश्रियाम् / त्यक्तस्नेहास्तिलाः पश्य, खलतां प्रतिपेदिरे अल्पीयसाऽपि पापेन, विनश्येत् सुकृतं बहु / दुग्धं काञ्जिकलेशेन, प्रस्फुटेदतिबपि // 301 // व्यसनेऽपि विमुञ्चन्ति, स्वकीया न हि कहिचित् / शुष्के सरसि तत्रैव, म्लानाः पङ्कजपङ्क्तयः ... // 302 // तनवः पतिताः क्लेशे, त्यजन्ति चिरसौहृदम् / जन्मस्नेहः क्षणात्त्यक्तो, यन्त्रान्त:पतितैस्तिलैः . // 303 // अल्पैनियति नोपायै,-नवीनाऽपि तमोमतिः / यत् सद्यस्कोऽपि किं नीली,-रागोऽद्भिरगमत्क्षितिम्? // 304 // प्रचुरा प्रकृतिः प्रायः, प्रेक्ष्यते पापपूरिता / स्त्रीरूपो वाऽयं पुंरूपो, द्विधा दृष्टो नपुंसकः // 305 // अपि स्वच्छात्मनां नीच,-गामितां हन्ति कोऽपि न / वारिता केन किं क्वाऽपि, सलिलानामधोगति: ? // 306 // ददृशेऽपि व्यथायोगे, पुरस्तात् साहसी भवेत् / अगत्वाऽपि प्रहारेषु, पाण्योयुगलमग्रतः // 307 / / अन्तःसारोऽप्यशुद्धात्मा, न क्वचिद्वल्लभो भवेत् / काम्यश्चाण्डालकूपः किं, भूयसाऽप्यम्भसा भृतः ? // 308 // सर्वे धर्माः पिधीयन्ते, दोषेणैकेन भूयसा / किं नाशं नेतरे वर्णाः, प्रयान्ति मलिनाम्बुना ? // 309 // दुःस्पर्शः पापवृत्तीनां, जडे स्यान्नेतरात्मनि / काकोत्सृष्टमपानीयं, पानीयं न पुनघृतम् न स्यान्मध्यस्थता शस्ता, कुस्थानैर्निर्मिता सती। यद् भवेत् प्राणवान् पण्ड,-स्तुन्दे मध्यस्थतां दधंत् // 310 // 42