________________ सच्छिदै रसिकात्मभ्यः, क्वचिन्नादीयते रसः / नीरं नीराशयेभ्यः किं, चातकैः परिभुज्यते ? // 288 // अहो ! तेजस्विननं कापि, कला कौशलपेशला / चिन्ता चिन्तानिवृत्तिश्च, दृग्भ्यामेवाऽवगम्यते // 289 // सेवा तिष्ठतु दुष्टानां, दर्शनादपि भीतयः / प्रेक्षिता अपि किं सर्पाः, न संत्रासस्य कारणम् ? // 290 // अकीर्तिः पापसङ्गेऽपि, लघो: स्यान्न गरीयसः / विनश्येद्वायसैः पीते, तोये कुम्भश्च नो सरः // 291 // अपि सत्सु कलावत्सु, पूज्यते पदर्चिषाम् / नेन्दौ सत्यपि किं प्रात,-नमस्कुर्वन्ति भास्करम् ? // 292 / / सत्यामप्यन्यसामग्यां, न स्यात् कालं विना फलम् / आविर्भूयाद् घृतं दुग्धात्, किं विना दिवसान्तरम् ? // 293 // कर्कशेष्वपि या तस्थौ, सतां वाक् सा च नाऽन्यथा / ये वर्णा ग्रावसूत्कीर्णा, भवेत्तेषां किमत्ययः ? // 294 // लघूनामपि बाहुल्यं, दोष्मतामप्यशर्मकृत् / दुःसहाः शकटोद्वाहे, धुर्याणां धूलयो न किम् ? // 295 // अन्तःसारे गतेऽप्युच्चैः, शुद्धात्मा मानमर्हति / हतेऽपि नवनीते किं, न लोकैस्तकमादृतम् ? // 296 // आत्मसात्कुरुते सिद्धि, सर्वतः सरलः पुमान् / कूपस्तम्भो न किं लेभे, यानपात्रे प्रधानताम् ? // 297 // सरलोऽपि मुखे दुष्ट,-स्त्रासकृज्जगतां मतः / कदाऽपि कोऽपि न क्वाऽपि, कुन्ततः कलयेद्भियम्? // 298 // पापात्मानो निजाय, परेषामसुखेच्छवः / घृतालाभाय तत्स्वामी, गवामिच्छति तुच्छताम् // 299 // / 41