________________ मन्दा भवन्ति सालस्याः, कलावन्तस्तु सोद्यमाः / त्रिंशन्मासान् शनिरास्ते, राशौ चेन्दुर्दिनद्वयम् // 264 // कोमलानां कठोरान्तः,-पतितानाममङ्गलम् / धान्यानां यद् घरट्टान्त,-र्गतानां कियती स्थितिः ? // 265 // सन्तः स्युः सङ्गताः सन्तः, श्रिये श्यामात्मनामपि / किं केशाः कलयामासु, न शोभां संश्रिताः सुमैः ? // 266 // प्रायो न हित(निहत?) एव स्यात्, कठोरात्मा रसप्रदः / यद् भग्नमेव दत्ते द्राग, नालिकेरफलं जलम् // 267 // तादृग् भोक्तरि नोत्कर्षो, यादृग् भोग्ये प्रवर्तते / न वेषाडम्बरस्तादृक्, पुंसां यादृग् मृगीदृशाम् // 268 // यद्येषां निकटं प्राय,-स्तत्तेषां वल्लभं भवेत् / . स्तनान्तःस्थितपयसां, स्त्रीणामेव पयः प्रियम् // 269 // न स्यात्तेजस्विनः शक्ति,-स्तादृग् यादृक् कलावतः / तादृग् नांशोर्बले शुद्धं, दिनं यादृग् निशापतेः // 270 // महिमानमक्षराणां, न वयं वक्तुमीश्महे / .. यत् कलिर्गालिदाने स्या,-दाशीर्वादे च सौहृदम् // 271 // का भवेदुन्नतिः पुंसां, स्वगुणस्तवने स्वयम् ? / रसस्य संभवः क्वापि, किं निजाधरचर्वणे ? // 272 // क्रियन्ते स्वमयाः सद्भि,-मृदवश्च न हीतरें / धीयते स्वगुणः पुष्प,-स्तिलेषु नो पलेषु च // 273 // तुच्छत्वेऽपि मृदुत्वं स्यात्, पद्धिग्रहणक्षमम् / पुष्पगन्धस्तिलैरेवा,-दीयते न दृषत्कणैः // 274 // लघीयानपि शिष्टात्मो,-पकाराय महीयसाम् / अब्धेरपामपाराणां, किं वृद्ध्यै नोदितः शशी ? - // 275 // . 36