________________ // 252 // // 253 // // 254 // // 255 // // 256 // // 257 // सिद्धे कार्ये जनेषूच्चै,-महानपि तृणायते / बध्यते मुकुटः स्तम्भे, विवाहानन्तरं न किम् ? गुणस्तुल्यास्पदेऽपि स्या,-निर्मले न ह्यनिर्मले / यत्सर्पिः प्राप्यते लोकै,-र्गोरसे न च गोमये दृश्यन्ते बहवः स्वल्प,-सत्त्वा नो सत्त्वशालिनः / पदे पदे पर्यटन्ति, भषणा न मृगद्विषः / संपदप्यल्पसत्त्वानां, स्यादवश्यमनर्थकृत् / कस्तूरी ननु कस्तूरी,-मृगाणां मृत्युकारिणी इह हेतुरनाना,-मप्रस्तावे गुणज्ञता / / गीतेषु रसिकैर्व्याधा,-दवापि मरणं मृगैः महिमा मूलतो याति, कुस्थानस्थितवस्तुनः / कस्तूरीतिलकं पङ्क,-मेव पामरमूर्धनि निर्गुणा गुणिभिः साकं, संगता यान्ति गौरवम् / न धान्यैर्मिलिता लोक,-गुह्यन्ते किमु कर्कराः ? तेजस्वी ननु तेजस्वि,-सङ्गे राजति नाऽन्यथा / यथा भाति मणिः स्वर्णे, न तथा त्रपुणि स्थितः . व्रजन्नपि जड: स्थान,-विनाशाय ध्रुवं भवेत् / नेत्रयोनिपतन्नीरं, हानये किं न तत्त्विषाम् ? अपि तुङ्गात्मनां संपद्, बहिर्भूताऽभिभूतये / रदार्थमेव द्विरदा, निहन्यन्ते वनेचरैः वाग्मिनः किं प्रकुर्वन्ति, मिलिते मलिनात्मनि ? / श्यामले कम्बले वर्णै,-रितरैः का प्रतिक्रिया / गले नौ -रितौ का प्रतिक्रिया जन्मस्नेहः सतां स्वीयै,-हन्यते दुर्मुखैः क्षणात् / तन्दुलानां तुषैमैत्री, निरस्ता मुशलेन यत् // 258 // // 259 // // 260 // // 261 // ' // 262 // // 263 // 30