________________ बुद्धिमानपि निर्बुद्धेः, सङ्गतः स्याज्जगद्भिये / वर्यकार्यनिषेधी यद्, गुरु: केशरिणं गतः // 240 // धिग् दुष्टान् यान्ति स (य)त्सङ्गा,-न्महात्मानस्तदात्मताम् / प्रययौ पापतां पाप,-ग्रहसङ्गेन यद् बुधः // 241 // गुणः स्वल्पोऽपि संपत्त्यै, सखे ! दोषजुषामपि / सर्वाङ्गैर्भग्नभद्राया, भद्रायाः पुच्छमृद्धिकृत् // 242 // दौःस्थ्यं दोषास्पदं शश्वत्, स्यात् कलाशालिनामपि / ...कान्तोऽप्यभवत्पापः, शशाङ्क: क्षीणवैभवः // 243 // कृत्यं भवति नीचानां, यच्च नीरैर्न चेतरैः / कारूणामर्थसिद्धिर्या, खरैः सा च न सिन्धुरैः // 244 // तुच्छानां वक्रता तुङ्गै,-निराकर्तुं न शक्यते / केशेषु पतितो ग्रन्थिः, कुञ्जरैः किं निरस्यते ? // 245 // कदाचिन्नातिनीचांनां, संस्कारोऽपि गुणावहः / क्षालनं कम्बलानां स्या, द्यद्विनाशाय सत्वरम् // 246 // न सत्सङ्गगुणारोपः, शुद्धेऽप्यधमवंशजे / किं बिम्बावस्थितिः क्वापि, भवेत् स्वच्छेऽपि कम्बले? // 247 // शुद्धात्मानो विधीयन्ते, नाऽधमैः स्वसमाः समे / कम्बौ किमितरैर्वणे,-निधीयन्ते निजा गुणाः ? // 248 // जडात्मसु स्थिता व्यर्थं, महत्यपि महस्विता / व्यनक्ति स्वपरव्यक्ति, नेन्दोर्भा भासुराऽपि यत् // 249 // जातौ सदृशि सर्वत्र, गोत्रमत्रोन्नतिप्रदम् / पशुत्वे सति सिंहस्यो,-पमा रम्या शुनश्च न . // 250 // भवेन्मान्यः कठोरोऽपि, मध्ये मधुरिमाङ्कितः / नालिकेरफले चक्रु,- दरं कर्कशेऽपि के ? // 251 // .. . 30