________________ // 228 // || 229 // 230 // // 231 // / // 232 // // 233 // असंभाव्यमपि प्रोक्तं, पूर्वैः स्यादतिसूनृतम् / / पार्वती प्रस्तरापत्यं, सत्यमित्यवसीयते / गुणाः सौन्दर्यशौर्याद्याः, साक्षरत्वं विना वृथा / सौवर्णं स्यादपि स्वर्णं, किं विनाक्षरसञ्चयम् ? महतां जननस्थान,-मुक्तिरुनतये भवेत् / विन्ध्यत्यजां गजानां किं, नारात्रिकं नृपाजिरे ? सर्वतः स्याद्विनष्टोऽपि, गरीयान् गौरवास्पदम् / यदश्मा ज्वलितस्तूर्णं, चूर्णोऽभूद् भूपंवल्लभः दोषस्तिष्ठतु तद्भाजा,-मभ्यर्णमपि दुःखकृत् / छिद्रयुक्तघटीपार्वे, झल्लरी यनिहन्यते / गुणिनामपि संसर्गो, दुर्मुखाणां गुणाय न / शरे शरासनासक्ते, दृष्टा क्वाऽपि दयालुता ? यशःशेषोऽपि तेजस्वी, भवेदर्थाय भूयसे / न रूप्यस्वर्णयोः सिद्धि, सूतः सूते मृतोऽपि किम्? प्रदत्तेऽनर्थमत्यर्थं, दुर्मुखैः पक्षशालिता / पक्षवानेव यत् पत्त्री, परप्राणाऽपहारकृत् तुङ्गवंशभवा नार्यः, पतिं दौःस्थ्ये त्यजन्ति न / मुमुचे हिमवत्पुत्र्या, नग्नोऽपि किमनङ्गजित् ? महात्मानो विरोधाय, सङ्गभाजो जडात्मभिः / चन्द्रयुक्ता ग्रहाः सर्वे, विवाहेऽनर्थहेतवः यन्त्रणं युक्तिमज्जाने, स्तब्धानां चासितात्मनाम् / यत्सरोजदृशां बन्धः, कुचेषु चिकुरेषु च मूर्खाणामधिकत्वं स्या,-दुत्तमेषु प्रमादिषु / . जगज्जातजडं जज्ञे, यत्सुप्ते पुरुषोत्तमे 35 // 234 / / // 235 / / // 236 // // 237 // // 238 // // 239 //