________________ तुच्छोऽपि हृद्यवादित्वा,-ज्जायते मानभाजनम् / कि कीर: कामितां भुक्ति, नाप्नोति मधुरं ब्रुवन् ? // 216 // नीचा अपि पीडितायां, स्वजातौ यान्त्यनिर्वृतिम् / पूत्कुर्वन्ति न किं काकाः, काके मृतिमुपेयुषि ? // 217 // स्वजातिमेवं निघ्नन्ति, नूनं जडनिवासिनः / आकर्णिताः सकणैः किं, न मीनाः स्वकुलाशिन: ? // 218 // निवसन्ती वयं विद्मः, सवित्रीनेत्रयोः सुधाम् / दुग्धपानं विना कूाः, प्राणन्त्यर्भा निभालनैः // 219 // आढ्यस्तिष्ठतु तत्पार्श्व,-मपि तेजस्वि तेजसा / श्रीददिग्वर्तिमूर्तिः किं, भानुमानातिदुःसह: ? // 220 // रसाढ्या मध्ये मृदवः, स्युर्बहिः कर्कशा अपि / किमीदृक् कऽपि केनाऽपि, नालोकि कदलीफलम् ? // 221 // ददतो नात्मनो वित्त,-व्ययं ध्यायन्ति दानिनः / स्वनाशो रम्भयाऽचिन्ति, किं फलोत्सर्जनक्षणे ? // 222 / / अचेतनोऽपि तुङ्गात्मा, श्रितो दत्ते निजं गुणम् / अधस्तात्तस्थुषां शोक,-नाशायाशोकभूरुहः // 223 // लभन्ते वाग्मिनो मानं, दुर्दशायां स्थिता अपि / कीर: पञ्जरसंस्थोऽपि, हारिगीरिति पाठ्यते // 224 // आस्तां वाक् प्रीतये प्रोच्चै,-निध्यातोऽपि कलानिधिः / किमीक्षितो मुदं दत्ते, न चकोरदृशां शशी? // 225 // अयुक्तमपि युक्तं त,-द्यच्चिरन्तनवाङ्मये / नदी व्योमनि तत्रापि, सरोजिनीति संमतम् // 226 // द्विजिह्वाधिष्टितः स्वामी, न क्लेशाय कलावताम् / कर्णाभ्यर्णस्थदृक्कार्णः, किमीशः शशिनो भिये ? // 227 // 34