________________ // 204 // // 205 // महतामपि दुर्मोचा, दुष्टतान्तर्विवर्तिनी। . किमानैरमृतात्कनै, -मुमुचेऽन्तःकठोरता ? स्थानकें भूयसी शोभा-मपि सद्वस्तु गच्छति / स्त्रीदृशोरञ्जनस्य श्री,-र्या न सा नरचक्षुषोः स्थाने यच्छोभनं वस्तु, कुस्थाने स्यात्तदन्यथा / . वालाः पुंसां मुखे शस्ता, स्तुण्डे स्त्रीणामनर्थदाः . श्रेयानपि स्थितः पापैर् (पापे), गुणोऽन्येषां भयावहः / ऊर्णनाभे कुविन्दत्वं, मक्षिकाणामनर्थकृत् ' उपप, नाकाणामनयकृत् नाऽतिशुद्धस्वरूपाणां, दुरिते जायते रतिः / स्थीयते कलहंसैः किं, वर्षासु कलुषाम्भसि ? खलानां न स्तुतिस्तादृक्, प्रिया निन्दा च यादृशी / // 206 // // 207 / / // 208 / / // 209 // // 210 // // 211 // // 212 // बहिस्तान्मञ्जवस्तुच्छा-अन्तः कठिनवृत्तयः / किमीदृक् क्वाऽपि केनाऽपि, नालोकि बदरीफलम् ? सृजन्ति तुच्छा अप्यति, महतीं महतोऽत्यये / तिष्ठन्ति तरणेरस्ते, मुद्रितास्याः खगा अपि प्रभावान्निष्प्रभेणाऽपि, सङ्गतः श्रियमश्नुते / / रविरुच्चैः पदं प्राप, गतोऽप्यङ्गारकौकसि . कलावानपि हीनत्वं, कलयेद्वक्रवेश्मगः / न नीचो वृश्चिकस्थः किं, बान्धवः कुमुदामभूत् ? दोषायते गुणः क्वाऽपि, दोषः क्वाऽपि गुणायते / केशेषु शुभ्रिमा दुष्टः, शिष्टस्तारासु कालिमा तुङ्गाः कार्यविशेषाय, मान्यन्ते तद्गुणप्रियैः / पोष्यन्ते दन्तिनो नूनं, दुर्गध्वंसाय पार्थिवैः // 213 // . // 214 // // 215 // 34