________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // ग्रन्थानभ्यस्य तत्त्वार्थं तत्त्वज्ञाने पुनः सुधीः / पलालमिव ध्यानार्थी त्यजेद् ग्रन्थानशेषतः क्षीयन्ते यानि कालेन किं तैः कर्त्तव्यमक्षरैः / यावन्नोऽनक्षरं प्राप्तं तावन्मोक्षसुखं कुतः ध्यानकल्पतरुलॊके ज्ञानपुष्पैः स पुष्पितः / मोक्षामृतफलैनित्यं फलितोऽयं सुखप्रदैः तथा कुरु यथा शुक्लध्यानवृक्षसमाश्रितः / चिन्वानो ज्ञानपुष्पाणि लभेन्मोक्षफलं बुधः अस्मिन्नेव भवे सौम्य व्योमरूपः सनातनः / शुक्लध्यानात्सदानन्दो योगी मुक्तिपदं व्रजेत् ज्ञानदर्शनचारित्ररूपरत्नत्रयात्मकः / योगो मुक्तिपदप्राप्तावुपायः परिकीर्तितः मणिहुतवहतारासोमसूर्यादयोऽपि / क्षितिविषयमिहाल्पं बाह्यमुद्योतयन्ति // सहजलयसमुत्थं द्योतयेज्ज्योतिरन्तस्त्रिभुवनमपि सूक्ष्मस्थूलभेदं सदैव परमानन्दास्पदं सूक्ष्मं लक्ष्यं स्वानुभवात्परम् / अधस्ताद् द्वादशान्तस्य ध्यायेनादमनाहतम् तैलधारामिवाच्छिन्नं दीर्घघटानिनादवत्। . लयं प्रणवनादस्य यस्तं वेत्ति स योगवित् घण्टानांदो यथा प्रान्ते प्रशाम्यन्मधुरो भवेत् / अनाहतोऽपि नादोऽथ तथा शान्तो विभाव्यताम् नदत्यव्यक्तरूपेण सर्वभूतहृदि स्थितः। स नादोऽनाहतस्तेन न नादो व्यक्तिसंभवः // 114 // // 115 // // 116 // // 117 // // 118 // 351 ...