________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // यथाप्यनेकरूपं स्याज्जलं भूवर्णभेदतः / तथा भावविभेदेन नानारूप: स गीयते / भावभेदान्न गच्छन्ति दर्शनान्येकवर्मना / एकत्रापि स्थिताः काये पञ्चैते विषया यथा निष्कलो निर्ममः शान्तः सर्वज्ञः सुखदः प्रभुः / स एव भगवानेको देवो ज्ञेयो निरञ्जनः व्योमरूपो जगन्नाथः क्रियाकालगुणोत्तरः / संसारसृष्टिनिर्मुक्तः सर्वतेजोविलक्षणः केवलज्ञानसंपूर्णः केवलानन्दसंश्रितः / केवलध्यानगम्यश्च देवेशोऽयमिहोच्यते इत्यनन्तगुणाकीर्णमनन्तं सुखशालिनम् / ध्यायेन्मुक्तिपदारूढं देवेशमपुनर्भवम् / शमरसस्वच्छगङ्गाजलेन स्नापयेत्प्रभुम् / पूजयेत्तं ततो योगी भावपुष्पैः सुगन्धिभिः भक्तिस्थाने विशाले च वश्यं कृत्वा स्थिरं मनः / निक्षिप्य परमानन्दं स्नेहपूरं सुधादिकम् दीपश्रेणी सुदीप्तां च प्रबोध्य ज्ञानतेजसा / उत्तारयेत् प्रभोः पुण्यमारात्रिकमिति क्रमात् .. सदैव विधिनानेन देवेशस्य प्रभोरहम्। . भवेयं भावत: पूजाकारकश्चेति चिन्तयेत् स्वहंसमन्तरात्मानं चिद्रूपं परमात्मनि / योजयेत्परमे हंसे निर्वाणपदमाश्रिते द्वाभ्यामेकं विधायाथ शुभध्यानेन योगक्त् i / परमात्मस्वरूपं तं स्वमात्मानं विचिन्तयेत् ૩પપ // 42 // // 43 // // 44 // // 45 // // 46 // // 47 //