________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // / शङ्करो वा जिनेशो वा यो यस्याभिमतः सदा। एक एव प्रभुः शान्तो निर्वाणस्थो विलोक्यते सुरासुरनराधीशपूजितो जगतांहितः / सर्वदोषविनिर्मुक्तो देवेशः परिकीर्तितः पुण्यापुण्यपथातीतो भववल्लीविनाशनः। अव्यक्तो व्यक्तरूपश्च सर्वज्ञः सर्वदर्शनः निराकारो निराभासो निष्प्रप्रञ्चो निरञ्जनः / सदानन्दमयो देवः सिद्धो बुद्धो निरामयः / अनन्तः केवलो नित्यो व्योमरूपः सनातनः / ' देवाधिदेवो विश्वात्मा विश्वव्यापी पुरातनः कृत्स्नकर्मकलातीतः सकलो निष्कलोऽपि च / परमात्मा परं ज्योतिः परं ब्रह्म परात्परः गुणत्रयविनिर्मुक्तो गन्धस्पर्शविवर्जितः / अच्छेद्यश्चाप्यभेद्यश्च निर्लेपो निर्मलः प्रभुः सगुणो निर्गुणः शान्तः संसारार्णवतारकः / दुर्लक्ष्यो लक्ष्यमापन्नः सुवर्णो वर्णवर्जितः एकोऽप्यनेकरूपश्च स्थूलः सूक्ष्मो लघुर्गुरुः / निर्वाणपदमारूढो देवेशोऽयमिहोच्यते ब्राह्मणैर्लक्ष्यते ब्रह्मा विष्णुः पीताम्बरैस्तथा / रुद्रस्तपस्विभिमुष्ट एष एव निरञ्जनः जिनेन्द्रो जल्प्यते जैनैर्बुद्धः कृत्वा च सौगतैः / कौलिकैः कोल आख्यातः स एवायं सनातनः स्फटिको बहुरूपः स्याद्यथैवोपाधिवर्जितः। स तथा दर्शनैः षड्भिः ख्यात एकोऽप्यनेकधा .. // 30 // // 31 // / . // 32 // // 34 // // 35 // 354