________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // संतोषामृतनिर्मग्नः शत्रुमित्रसमः सदा। सुखदुःखपरिज्ञाता रागद्वेषपराङ्मुखः प्रभाराशिरिव श्रीमान् सर्वविश्वोपकारकः / सदानन्दसुखापूर्णः स्वात्मा ध्यातव्य ईदृशः शुद्धस्फटिकसंकाशः सर्वज्ञगुणभूषितः / परमात्मा कलायुक्तो ध्येयः स्वात्मा मनीषिभिः षट्चक्र-चतुःपीठादि सर्वं त्यक्त्वा मुमुक्षुभिः / आत्मा ध्यातव्य एवायं ध्याने रूपविवजिते एवमभ्यासयोगेन ध्यानेनानेन योगिभिः / शरीरान्त:स्थितः स्वात्मा यथावस्थोऽवलोक्यते न ज्ञातः पुरुषो येन गुणप्रकृतिवर्जितः / तेनैव तीर्थयज्ञादि सेवनीयं न योगिभिः / आत्मज्ञानं परं तीर्थं न जलं तीर्थमुच्यते / स्वात्मज्ञानेन यच्छौचं तच्छौचं परमं स्मृतम् . आत्मज्ञानं परो धर्मः सर्वेषां धर्कर्मणाम् / प्रधानं सर्वविद्यानां प्राप्यते ह्यमृतं ततः / तपोभिर्दुस्तपैस्तप्तैर्ऋतैस्तैस्तैश्च दुष्करैः।। आत्मज्ञानं विना मोक्षो न भवेद्योगिनामपि . सर्वधर्ममयः श्रीमान् सर्ववर्णविवर्जितः। . आत्माऽयं ज्ञायते येन तस्य जन्म न विद्यते एवं ध्यात्वा स्वमात्मानं स्वकाये कायवर्जितम्। . ध्येयः परपदारूढ: परमात्मा निरञ्जनः स्वप्नदृष्टिसमां तत्र दृष्टिमुन्मील्य योगवित् / पश्येत् परपदारूढं देवेशं मुक्तिहेतवे // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // 343