________________ // 64 // // 65 // // 67 // // 68 // // 69 // हितं वचो न यः सम्यक्, श्रृणोति स्वकदाग्रहात् / स पश्चाद्दुःखभागी स्याद्धस्तामलकवद्यथा या याऽवस्था समभ्येति, तां तां च सहते नरः / करीरपुष्पदूनोऽपि, तिलयन्त्रेऽवहत् पुरा योऽधिगत्य पदं किञ्चिन्नोपकारपरायणः / स श्रीदत्त इवात्यन्तं, स्वजनैरपहस्यते गौरवं विभवाज्जाने, विभवो बुद्धिसम्भवः / तदत्ययाद्धनः श्रेष्ठी, खेदमासेदिवान् पुरा एकत्रौचित्यवचनमन्यतो ग्रन्थकोटयः। पश्यौचित्यगिरा लेभे, बन्धमोक्षं स माधवः न्यासापलापमुख्यं यः, कूटं निर्माति दुर्मतिः / वसुदत्तादिवत् स स्यान्नानाऽनर्थनिकेतनम् मनो हि दारुवद्वक्रं, नानाभिग्रहयन्त्रतः। . तपस्तापेन शनकैरभङ्गात् समतां नयेत् यस्य बुद्धिः स्वयं नास्ति, हितं वा न श्रुणोति यः / स एव निधनं याति, यथा मन्थरकोलिक: उत्पन्नेषु च कार्येषु, बुद्धिर्यस्य न हीयते / स एव तरति दुर्गं, जलान्ते वानरो यथा परनिन्दा महापापं, परपापान्यहो ! यतः / अकृत्यान्यपि लिम्पन्ति, तत्कारां जरतीं यथा कूटसाक्ष्यात्परं पापं, न भूतं न भविष्यति / रुरोद वायसो दृष्ट्वा, चरितं ग्रामवासिनाम् अनेन तव पुत्रस्य, प्रसुप्तस्य वनान्तरे। शिखामाक्रम्य हस्तेन, खड्गेन प्रहतं शिरः // 70 // . // 71 // // 72 // // 73 // // 74 // / / 75 // 348