________________ // 52 // // 53 // // 54 // // 55 // // 56 // // 57 // रहस्यं नैव वक्तव्यं, कस्यचिन्मतिशालिना / अनुक्ते स्यान्महास्नेहः, पतिपत्न्योर्यथा तयोः अत्वरा सर्वकार्येषु, त्वरा सर्वविनाशिनी / त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः देवराजो दीपदिनं, यमः कालो विधिस्तथा / मन्दिरै चित्रगुप्तस्य, शुकस्य मरणं ध्रुवम् आत्मनः कुशलाकाङ्क्षी, परद्रोहं न चिन्तयेत् / स्थविरायाः कृतो द्रोहो, वध्वा एवोपनीयते लघवोऽपि प्रबोधाय, महतां स्पर्द्धया क्वचित् / पितृरीढापरस्तातो, यथा पुत्रेण बोधित: तारुण्ये द्रविणं दद्याद्विद्यमाने पराक्रमे। आसन्ने मरणे वृद्धा, वधूकाभिविडम्ब्यते अनेकेष्वपराधेषु, सत्सु मन्त्री व्यमुञ्चयत् / बुद्ध्या न्यायं पुरस्कृत्य, कुमारामात्यभाग्यभृत् अगुणज्ञेषु गुणवान्, दर्शयन्नात्मनो गुणान् / कुग्रामपामरैर्व्यासः, परितुष्टः कदर्थ्यते न यच्छन्ति यथाशक्त्या, ये वित्तं स्वभुजार्जितम्। तेषां परवशे तस्मिन्, भवेत् सङ्कलवद् यथा (ननु) आपृच्छ्यमानःस्वं दोषं, कश्चिदाख्याति मन्दधीः / अन्नं कारुगृहे भुक्तं, स्वयमेव जगौर्जटी परस्परं च माणि, ये वदन्ति नराधमाः / त एव निधनं यान्ति, वल्मीकोदरसर्पवत् स्वल्पेनापि प्रयासेन, स्फुरद्भाग्योदयो ध्रुवम् / लाभं राजप्रसादं चाऽऽप्नोति धीरकवद् यथा // 58 // . // 59 // // 60 // // 61 // // 62 // // 63 // 347