________________ // 4 // // 6 // // 7 // // 8 // // 9 // असमञ्जसवाग् लोको, न भाव्यं कर्णदुर्बलैः / गृहभञ्जनकश्चक्रे, कलिं पतिकलत्रयोः आमूलचूलं श्रोतव्यं, श्रोतव्यं नांशमात्रतः / अज्ञातपारम्पर्येण, गुरुः शिष्येण ताडितः यो यथा बुध्यते जन्तुस्तं तथा बोधयेद् बुधः / कखप्रलापी दधनैत्यार्यो याज्येन बोधितः केचिन्नृपशवो लोके, तेषां सत्त्वकथा पुनः / व्यवहारविदे नैषां, न बुधत्वं तपस्विवत् कदाचिद्धानिरपि हि, वृद्धयै स्यात्पुण्ययोगतः / सर्वं विप्रियमप्युच्चैः श्रेष्ठिना भव्यमौच्यत यन्न सिध्यति शक्त्याऽपि, तत्साध्नोति धिया बुधः / उपरि ग्रन्थिकरण-युक्त्या चौरमहन् वणिक् मनोरथान् प्रत्ययतां, कार्यं नश्यति मूलतः / केषाञ्चित्पुण्यहीनानां, सक्तुगड्डकविप्रवत् . यावदायाति निर्वाह, आज्ञैश्वर्यं विवेकिना / तावदेव प्रयोक्तव्यं, श्रुत्वा तां तापसी कथाम् निश्शङ्कः पुरुषः सर्वकार्येषु लभते फलम् / क्षत्रियस्यार्थलाभाय, दण्डाय वणिजः सुरः धीरे धीमति निःशूके, देवा अपि हतौजसः / , .. कैतवेन यदादिष्टं, तत् सर्वं देवताऽकरोत् नराणां वञ्चने कैव, कथा ? बुद्धिधरो नरः / देवानपि च्छलयति, व्यन्तरं वाणिजो यथा धूर्तानां प्रतिधूर्तेषु, मा श्रद्धां दधतां बुधाः ! / गन्धर्वाय प्रपन्नोऽश्वो, न दत्तः शठभूभुजा 383 // 10 // // 11 // // 12 // // 13 // // 14 // // 15 //