________________ खलवाक्प्रत्ययेनार्थं, सिद्धं निर्नाशयन्ति हा ! / केचिन्नराधमास्तत्र, कन्थाविप्रो निदर्शनम् // 16 // न वर्तितव्यं धीरेण, स्त्रीनिदेशात् कदाचन / स्त्रीवाग्वशंवदत्वेन, तन्तुवाय:क्षयं गतः // 17 // यत् सिद्ध्यति धिया पुंसां, तद् बलेन न सिद्ध्यति / . गाथकोपद्रवो वाद्यनादेन वणिजा हतः . // 18 // / सेवाफलमयच्छन्तः, स्वामिनो हास्यभाजनम् / भृत्यानामपि जायन्ते, शुभ्रदन्तचतुष्कवत् // 19 // यस्यालस्यमसामान्यं, तस्य देहेऽपि नादरः / मामागिरावुभौ लोके, न श्रुतावग्निदीपने ? // 20 // प्रच्छनवाच्यं यद् वाच्यं, नैव वाच्यं तदुच्चकैः / ततो ह्यनर्थवृद्धिः स्याद्राचार्यप्रोक्तचूर्णवत् // 21 // अपुनःकारिता यत्र, तन्मिथ्यादुष्कृतं शुभम् / अन्यत् पुनः कुम्भकारमिथ्यादुष्कृतवन्मृषा // 22 // मा कस्यचिदवष्टम्भाद्वैरमारभतां सुधीः / वणिभिक्षाकदृष्टान्तान्न कश्चिद्विषमे सखा // 23 // / परद्रविणमादाय, तस्य प्रत्यर्पणं खलाः / / मनसाऽपि न चिन्तन्ति, यथा स स्वर्णकारक: . // 24 // भोक्तारोऽर्थस्य कार्पण्यसंचितस्यापरे नराः / सञ्चिता केवलं पापक्लेशपात्रं यथा वणिक् // 25 // संशयध्वान्तमग्नानां, सद्वाग्दीपः प्रबोधकः / सोमदत्तेन विप्रेण, बोधितः श्रेष्ठिनन्दनः // 26 // गुरुमव्यवहारस्थं, हितवाचामगोचरम् / क्रौर्ययुक्त्या शिक्षयन्ति, धीरास्तापसयाज्यवत् // 27 // / 344