________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // उपकारः सतां स्थान,-विशेषाद् गुणदोषकृत् / लोके घूके रवेर्भास,-स्तेजसे चाऽप्यतेजसे भवन्ति महतां प्रायः, .संपदो न विनापदम् / पत्रपातं विना किं स्याद्, भूरुहां पल्लवोद्गमः ? महद्भ्यः खेदितेभ्योऽपि, प्रादुर्भवति सौहृदम् / प्रादुरासीन्न किं सर्पि,-मथितादपि गोरसात् ? नाशं कर्तुमलं वीरा, न तज्जाति विना द्विषाम् / छिद्यन्ते पशुभिर्वृक्षा, न विना दारुहस्तकम् दत्ते ह्यनर्थमत्यर्थं, कुपात्रे निहितं धनम् / कि वृद्धये विषस्यासी,-नाऽहीनां पायितं पयः ? शिष्टे वस्तुनि दुष्टस्य, मतिः स्यात् पापगामिनी / कलावतीन्दौ मिलिते, राहुरत्तुमना अभूत् भवन्त्यवसरे तुङ्गा, नीरसेऽपि रसोत्तमाः / बद् ग्रीष्मौ सुभीष्मेऽपि, रसाला रसशालिनः / तुच्छहारेऽपि तुच्छानां, विषयेच्छा महीयसी / दृषत्कणभुजोऽपि स्युः, कपोताः कामिनो बहु धिग् नै:स्व्यं यद्वशान्नाथं, त्यजन्त्यपि मृगीदृशः / ईशमाशाम्बरं हित्वा, जाह्नवी जलधि ययौ साधारणेऽपि सम्बन्धे, क्वाऽपि स्यात् प्रेम मामसम् / रोहिण्या एव भर्तेन्दु,-यक्षऋक्षाऽधिपोऽपि यत् मान्यन्ते गुणभाजोऽपि, न विना विभवं सखे ! / पतिताः पांशुभिः पूर्णे, पथि पर्युषिताः स्रजः रसिकेषु वसन् वेत्ति, कठोरात्मा न तद्रसम् / स्तनोपरि लुठन् हार,-स्तद्रसं नोपलब्धवान् ... . // 78 // // 79 // // 80 // // 81 // // 82 // // 83 //