________________ // 84 // - // 85 // 86 // ताम् / . // 87 // // 8 // // 89 // ध्रुवं स्यादुपकाराय, मानित: सरलः सखे ! / प्राणानवति किं नैव, गृहीतं वदने तृणम् ? दुःखीकृत्याऽपि स्वं पापः, परेषामपकारकृत् / मृत्वाऽपि मक्षिकाऽन्येषां, जायते वान्तिकारिणी दुःखीकृत्याप्यपापः स्वं, परेषामुपकारकृत् / / झम्पां दत्वा स्वयं वह्नौ, पर्पटः परपुष्टये . न वासोऽपि श्रिये नीच,-गामिनां सन्निधौ सताम् / यत् पेतुः पादपाः कूल,-ऋषाकूलभुवः स्वयम् नान्यस्मै स्वं गुणं दत्ते, रागवानपि कर्कशः / अकारि विद्रुमेणाऽन्य,-द्वस्तु किं रक्तिमाङ्कितः ? शस्यते सर्वशास्त्रेभ्यो, रूढिरेवं बलीयसी / तदङ्कत्वे समानेऽपि, शशीन्दुर्न मृगीति यत् दृशा दुष्टदृशां दृष्टाः, प्रभावन्तोऽपि निष्प्रभाः / बभूवुर्भुजगैदृष्टाः, प्रदीपा: क्षीणदीप्तयः पिहितैव श्रियं धत्ते, पद्धति: पुण्यकर्मणाम् / दुकूलकलितावेव, कुचौ कान्तौ मृगीदृशाम् महतामपि लघुता, तस्थुषां मूर्खपर्षदि / मन्दधामगतस्यासी,-नीचत्वं दिविषद्गुरोः मध्ये मेधाविनां तिष्ठन्, मूर्योऽपि मानमश्नुत्ते / मन्दोऽप्युच्चैः पदं प्राप, कविकेलिगृहं गतः दुर्दैवेऽनर्थसाय, सङ्गतिर्धीमतामपि / गतः कविसभां भासां, प्रणयी प्राप नीचताम् न तद्दोषलवोऽपि स्यात्, खलान्तर्वसतां सताम् / तिष्ठन् मूर्धनि सर्पाणां, मणिः किं विषदोषवान् ? / / 90 // // 91 // // 92 // // 93 // // 94 // // 95 // 24