________________ // 60 // // 61 // // 62 / / . // 63 // // 64 // // 65 // न पदं संपदां प्रायः, कुलोत्पन्नोऽपि दुर्मनाः / अन्तर्वक्रोऽब्धिसूः शङ्खो, दृष्टो भिक्षाकृते भ्रमन् भवेद्वस्तुविशेषेण, सुकृते दुष्कृते च धीः / ध्यानधीरक्षमालायां, प्रहारेच्छा च कार्मुके वपुःशेषोऽप्यपुण्यात्मा, स्वभावं न विमुञ्चति / जहाति जिह्मतां रज्जु,-र्खलिताऽपि न जातुचित् . सतां नोपप्लवाय स्यु,-द्विजिह्म मिलिता अपि / नैषि सङ्गाद् भुजङ्गानां, .. .... चन्दनद्रुमः निजकार्याय दुष्टोऽपि, महद्भिर्बहु मन्यते / दाहकार्यपि सप्तार्चि,-रिन्धनार्थं गवेष्यते कुप्रसिद्धिः कुसङ्गेन, तत्क्षणान्महतामपि / . महेशो विषसान्निध्यात्, कण्ठेकालोऽयमीरितः न सत्संस्तवसौभाग्यं, गदितुं गुरुरप्यलम् / तन्तुभिः सुमनःसङ्गा,-ल्लब्धं स्वाहाभुजां शिरः निःसारे वस्तुनि प्रायो, भवेदाडम्बरो महान् / ' कुसुम्भे रक्तिमा यादृग, घुसृणे न च तादृशी क्षीयतेऽभ्युदयेऽन्येषां, तेजस्तेजस्विनामपि / नोदये पद्मिनीबन्धोः, किं दीपा: क्षीणदीप्तयः ? पात्रे शुद्धात्मने वित्तं, दत्तं स्वल्पमपि श्रिये / दत्ते स्निग्धानि दुग्धानि, यद् गवां चारितं तृणम् स्वल्पसत्त्वेष्वपि स्वेषु, वृद्धिः सत्स्वेव निश्चितम् / उद्गमो यज्जनैदृष्टः, सतुषेष्वेव शालिषु सिद्धि सृजन्ति कार्याणां, स्मितास्या एव साक्षराः / / लेखा उन्मुद्रिता एव, जायन्ते कार्यकारिणः 22 // 66 // // 67 // // 68 // // 69 // // 70 // // 71 //