________________ // 48 // // 49 // // 50 // // 51 // // 52 // का क्षतिर्यदि नाऽसेवि, तुङ्गात्मा मलिनात्मभिः ? / का हानिहेमपुष्पस्य, मुक्तस्य मधुपैरभूत् ? . नीचानां वचनं चारु, प्रस्तावे जल्पतां सताम् / प्रीतिकृत् प्रस्थितानां हि, वाम गर्दभगर्दितम् लघोरपि वचो मान्यं, समये स्याद् महात्मनाम् / प्रस्थितैर्वामदुर्गायाः, शब्दः श्रेयानुदीरितः स्थानभ्रष्टोऽपि शिष्टात्मा, लभेन्मानमनर्गलम् / खानेश्च्युतो मणिभूम,-न्मूर्धानमधिरोहति मध्ये मेधाविनां मातृ,-मुखानां मानमर्हति / कोकिलान्तर्गताः काकाः, कोकिला एव यद्वशात् न मौनं वाग्मिनां शस्तं, वाक्कलाकुशलात्मनाम् / अकूजन् कोकिलो लौकैः, काकोऽयमिति गीयते अल्पीयानप्यसत्सङ्गः, स्यादनाय भूयसे / यवनैरेकशो भुक्तः, स्यादाजन्मान्वयाद् बहि: विकारं नैति जीवान्तं, कष्टमारोपितोऽपि सन् / यत्तापितमपि स्वर्णं, वर्णं धत्ते मनोरमम् न करोति नरः पाप,-मधीताऽल्पश्रुतोऽपि सन् / यद् भणन् रामरामेति, न कीरः पललालसः वसन्नपि ... ..... पापो, न वेत्ति गुणिनां गुणान् / न तिष्ठनुदके भेको, गन्धं वेत्ति सरोरुहाम् महस्विमिलनान्मन्दा, अपि स्युर्दुःसहाः सखे ! / जलं ज्वलनसंपृक्तं, दुःसहं ददृशे न कैः ? परतः संपदं प्राप्य, सोत्कर्षा. नीचगामिनः / लब्धतोयाः पयोवाहा,-दुस्तराः सरितो न किम् ? // 54 // // 55 // . // 56 // // 57 / / // 58 // // 59 // 21