________________ सखे सुखं वैषयिकं यदेत-दाभासते तन्नरकान्तमन्तः। सत्यं तदुत्सर्पदघप्रबन्धनिबन्धनत्वान्नरकान्तमेव // 35 // स्मरक्रीडावाप्यां वदनकमले पक्ष्मलदृशां दृढासक्तिर्येषामधरमधुपानं विदधताम् / अदूरस्था बन्धव्यसनघटना क्लेशमहती . विमुग्धानां तेषामिह मधुकराणामिव नृणाम् .. // 36 // सखे सन्तोषाम्भः पिब चपलतामुत्सृज निजां , . शमारामे कामं विरचय रुचि चित्तहरिण ! हरन्त्येतास्तृष्णां न युवतिनितम्बस्थलभुवो विमुक्ता नीरागैर्विषमशरसम्पातविषमाः . // 37 // चेतश्चापलमाकलय्य कुटिलाकारां कुरङ्गीदृशो दृष्ट्वा कुन्तलराजिमं जनघनश्यामां किमुत्ताम्यसि ? धर्मध्यानमहानिधानमधुना स्वीकर्तुकामस्य मे प्रत्यूहार्थमुपस्थितेयमुरगश्रेणीति संचिन्तयेः // 38 // यातुं यद्यनुरुच्यते शिवपुरी रामानितम्बस्थली मुञ्चेर्दूरमिमामनङ्गकलभक्रीडाविहारोचिताम् / नो चेद्यौवनचण्डवातविततव्यामोहधूलीकणक्लाम्यदृष्टिरदृष्टशाश्वतपथः प्राप्नोषि जन्माटवीम् // 39 // शमधनमुपहर्तुं कामचौरप्रचारं विरचयति निकामं कामिनी यामिनीयम् सपदि विदधती या मोहनिद्रासमुद्रां जनयति जनमन्तः सर्वचैतन्यशून्यम् मृगेक्षणा नूनमसावसीमा भीमाटवी बुद्धिमतामतीत्या। यद्बाहुवल्लीभिरनङ्गभिल्लो बवा नरान् लम्भयते न मुक्तिम्॥ 41 // // 40 // 204