________________ विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर / नो ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्गनोदरम् ? // 26 // स्फूर्जन्मनोभवभुजङ्गमपाशनाभि नाभी कुरङ्गकदृशां दृशि यस्य लग्ना नाभीमयं जगदशेषमुदीक्षतेऽसौ यो यत्र रज्यति स तन्मयमेव पश्येत्॥२७ जडोपयुक्तं जघनं मृगाक्ष्याः समीक्ष्य किं तोषभरं तनोषि / अमुं विशुद्धाध्यवसायहंसप्रवासहेतुं घनमेव विद्याः // 28 // नितम्बमुल्लासिततापनोदं दिदृक्षसे यत्कमलेक्षणानाम् / सर्वात्मनात्यन्तकटुं विदित्वा तं निम्बमेव त्यज दूरतोऽपि // 29 // नूनं नूपुरमेतदांयतदृशो रागादिविद्वेषिणां क्रीडार्थं पुरमित्यवेत्य न दृशाप्यालोकनीयं क्वचित् / येनास्मिन्मुखमात्रचङ्गिमगुणैराकृष्य तैरुल्बणै- . बंद्धस्य प्रसभं चिरादपि सखे ! मुक्तिर्भवित्री न ते // 30 // या स्त्रीति नाम्ना बिभृते शमादौ शस्त्री प्रबुद्धैरवबुध्यतां सा। एनां पुरस्कृत्य जगत्यनङ्गभटो यतः पुण्यभटं भिनत्ति // 31 // येयं वधूरवसिता हृदये प्रमोद-संपादनव्यतिकरैकनिबन्धनं ते / सा दुर्गदुर्गतिपथेन जगन्निनीषो-धूरव मन्मथरथस्य विभावनीया 32 प्रीतिं तन्वन्त्यनलसदृशो यास्तरुण्यस्तवैता देहद्युत्या कनकनिभया द्योतिताशा विवेकिन् ! सत्यं तासामनलसदृशां संयमारामराज्यं / मा भूः पार्श्वेऽप्यसि यदि शिवावाप्तये बद्धबुद्धिः // 33 // क इह विषयभोगं पुण्यकर्मायशून्यं स्पृहयति विषभोगं भावयेस्तत्त्वतस्तम् / स्मरति न करणीयं मूर्छितो येन जन्तुः पतति कुगतिगर्ते नेक्षते मोक्षमार्गम् // 34 // 203