________________ अलं प्राप्य स्पर्श कुचकलशयोः पङ्कजदृशां . परां प्रीति भ्रातः ! कलयसि सुधामग्न इव किम् ? अवस्कन्दं धर्मक्षितिपकटके दातुमनसा प्रयुक्तं जानीयाः कलुषवरटेन स्पशमिमम् // 16 // पीनोन्नतं स्तनतटं मृगलोचनाया आलोकसे नरहितं यदपूर्वमेतत् / मोहान्धकारनिकरक्षयकारणस्य विद्यास्तदस्ततटमेव विवेकभानोः // 17 कन्दर्पद्विपकुम्भचारुणि कुचद्वन्द्वे मृगाक्ष्या मया न्यस्तो हस्त इति प्रमोदमदिरामाद्यन्मना मास्मभूः / किं त्वाजन्म यदर्जितं बहुविधामभ्यस्य कष्ट क्रियां . हस्तोऽयं सुकृतस्य तस्य सहसाऽदायीति संचिन्तयेः // 18 // कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युवत्या भुजगं गराजितम् / एतस्य संस्पर्शवशादपि क्षणादशेषचैतन्यमुपैति संक्षयम् // 19 // कण्ठावसक्ते कुपिते नवाही वरं बहिःप्राणहरे प्रमोदः / विध्वस्तधर्मान्तरजीविते नुः स्त्रैणे न वाही विदुषां स युक्तः // 20 // कोयं विवेकस्तव यन्नतध्रुवां दोषावगूढ: प्रमदं विगाहसे। यतः स्मरातङ्कपरीतचेतसां किं सुन्दरासुन्दरयोविवेचनम् // 21 // हंहो विलोक्य परमं गदमङ्गनानामानन्दमुद्वहसि कि मदनान्धबुद्धे / सत्यं विवेकनिधनैकनिमित्तमेतन्मेधाविनो हि परमङ्गदमुद्गृणन्ति२२ अयं जनो वलयभरं विलोकते मृगीदृशामधिभुजवल्लि बालिशः / न बुद्ध्यते सुकृतचमूं जिगीषतः समुद्यतं बलभरमेनमेनसः // 23 // ये दृक्पथे तव पतन्ति नितम्बिनीनां कान्ताः करा जडिमपल्लवनप्रवीणाः। नो वेत्सि तान् किमपवर्गपुरप्रयाणप्रत्यूहकारणतया करकानवश्यम् // 24 नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हारं हृदि हर्षमेषि / विवेकपङ्केरुहकाननस्य तमेव नीहारमुदाहरन्ति // 25 // 202