________________ // 8 // तस्याः कोपपदं यदाननमहोरात्रं स्मरनात्मनः संतापं वितनोषि काननमहो ज्ञात्वा सखे ! तत् त्यजेः / एतस्मिन् वसता मनोभवमहासर्पण दष्टः पुमान् का-कार्यविवेकशून्यहृदयः कस्को न संजायते? // 8 // साकारमालोक्य मुखं तरुण्याः किं मुग्धबुद्धे मुदमादधासि / इदं हि चित्तभ्रमनाटकस्य विचक्षणैरामुखमाचचक्षे // 9 // कामज्वरातुरमते तव सर्वदास्यं वामध्रुवां यदि कथञ्चिदवाप्तुमिच्छा / यत्नं विनाप्यखिलजन्मपरंपरासु तज्जातमेव भवतो ननु सर्वदास्यम् 10 तस्याः साधुरदं विलोक्य वदनं यः संश्रयत्यञ्जसा / मुक्त्वा मुक्तिपथं हहा ! प्रविशति भ्रान्त्या स दुर्गं वने / तच्चात्यन्तमचारुबद्धवसतिर्येनात्र रागादिभिश्चौरैर्धर्मधनापहारकरणात् कष्टं न किं प्राप्यते? // 11 // यियाससि भवोदधेर्यदि तटं तदेणीदृशामहीनमधरं धरं परिहरेः परं दूरतः / इहास्फलनतोऽन्यथा विशदवासनानौस्तव व्रजिष्यति विशीर्णतां न भविता ततो वाञ्छितम् // 12 // न भातीदं भ्रातः स्फुरदरुणरत्नौघकिरणप्रतानं तन्वङ्ग्यास्तरलतरलं कुण्डलयुगम् / दमं दुग्धं पुंसामिह विरहसंयोगदशयो- . . लच्छोकानङ्गज्वलनयुगिदं कुण्डयुगलम् // 13 // ताडकं सस्पृहं तस्याः पश्यन्मूढ परे भवे / नरो नरकपालेभ्य स्ताडं कं न सहिष्यते? // 14 // सारं गलं यमरविन्दविलोचनानामालोक्य चेतसि मुदं कलयन्ति मूढाः / हा निश्चितं रचितमुक्तिपुरप्रवेशव्याषेधमर्गलममुं न विचारयन्ति 15 271