________________ श्रीशतार्थवृत्तिकारश्रीसोमप्रभाचार्यविरचिता ॥शृङ्गारवैराग्यतरङ्गिणी॥ धर्मारामदवाग्निधूमलहरीलावण्यलीलाजुषस्, तन्वङ्ग्यायमितान्विलोक्य तदहो वालान्किमुत्कण्ठसे / व्यालान्दर्शनतोऽपि मुक्तिनगरप्रस्थानविघ्नक्षमान्, मत्वा दूरममून् विमुञ्च कुशलं यद्यात्मनो वाञ्छसि // 1 // ये केशा लसिताः सरोरुहदृशां चारित्रचन्द्रप्रभा - भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः / क्लेशान्मूर्तिमतोऽवगम्य नियतं दूरेण तानुत्सृजे !चेत्कष्टपरम्परापरिचितः शोच्यां दशामेष्यसि // 2 // ये शुद्धबोधशशिखण्डनराहुचण्डाश्चित्तं हरन्ति तव वक्रकचाः कृशांग्याः। ते निश्चितं सुकृतमय॑विवेकदेहनिर्दारणे ननु नवक्रकचाः स्फुरन्ति॥३॥ अलंकृतं कुन्तलभारमस्या विलोक्य लोकः कुरुते प्रमोदम् / वैराग्यवीरच्छिदुरं दुरन्तममुं न किं पश्यसि कुन्तभारम् कस्तूरिकातिलकितं कुलिताष्टमीन्दु, चित्ते विचिन्तयसि सौख्यनिमित्तमेकम् वामध्रुवां यदलिकं तदहो, अलीकमित्याख्ययैव परया प्रवदन्ति रूपं न भूरियं पङ्कजलोचनायाश्चकास्ति शृङ्गाररसैकपात्रम् / भूः कित्वसौ साधुतरा प्रसूते निबन्धनं मोहविषद्रुमस्य नवकुवलयदामश्यामलान् दृष्टिपातान् कृतापरमदनाशान् विक्षिपत्यायताक्षी। इति वहसि मुदं किं मोहराजप्रयुक्तान् प्रशमभटवधार्थं विद्ध्यमून् दृष्टिपातान् // 4 // // 6 // // 7 // 200