________________ स्वामिभक्तः सुचैतन्य स्वल्पनिद्रः सदोद्यमी। अल्पसन्तोषवान् शूरः, तत्तुल्यता कथं मम ? // 12 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण खराश्चरन्ति // 13 // शीतोष्णं नैव जानामि, भारं सर्वं वहामि च / तृणभक्षणसन्तुष्टः, सदापि प्रोज्ज्वलाननः // 14 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति काकाः // 15 // प्रियं दूरगतं गेहं, प्राप्तं जानामि तत्क्षणात् / न विश्वसिमि कस्यापि, काले चाऽऽलयकारकः // 16 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति चोष्ट्राः // 17 // एकस्यां घटिकायां, योजनगामी सदा नृपतिमान्यः / / भारोद्वहनसमर्थः, कथं समो निर्गुणैः सार्द्धम् // 18 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण च भस्मरूपाः // 19 // मूढकमध्ये क्षिप्ता, करोम्यहं सकलधान्यरक्षां द्राग्। मां वदन्ते मनुजाः, मुखशुद्धिकरी सुगन्धाढ्या // 20 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता जानाम्यहं नैव च कीदृशाः स्युः // 21 // 250