________________ // 4 // पण्डितसुधाभूषणगणिगुम्फिता ॥विद्वद्गोष्ठी // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः। . ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति // 1 // स्वरे शीर्षं जने मांसं, त्वचं च ब्रह्मचारिणे / शृङ्गं योगीश्वरे दद्या-न्मृगः स्त्रीषु सुलोचने // 2 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण चरन्ति गावः // 3 // तृणमद्मि पयो धवलं, छगणं गेहस्य मण्डनं भवति। रोगापहारि च मूत्रं, पुच्छं सुरकोटिसम्भवस्थानम् येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण तृणानि मन्ये // 5 // गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमन्तयोरपि / नृणां त्राणमहं यत् स्यां, तत्समत्वं कथं मम? // 6 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण भवन्ति वृक्षाः // 7 // छायां कुर्मो वयं लोके, फल-पुष्पाणि दद्महे। पक्षिणां सर्वदाऽऽधारो, गृहादीनां च हेतवः // 8 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण हि धूलिपुञ्जाः // 9 // कारयामि शिशून् क्रीडां, पङ्कनाशं करोमि च। मत्तोऽजनि रजःपर्व, लेखे क्षिप्तः फलप्रदः // 10 // येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः / ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण शुनः स्वरूपाः // 11 // 268