________________ इयं वारंवारं द्युतितुलितरोलम्बवलयं न वक्रं भ्रूचक्रं चलयति मृगाक्षी मम पुरः / कुधीकारागारापसरणमति मां स्खलयितुं प्रपञ्चत्पञ्चेषोर्वहति निबिडं लोहनिगडम् // 42 // यामोऽन्यत्र द्रुततरमितो मित्र यत्कण्ठपीठे नायं हारश्चकितहरिणीलोचनायाश्चकास्ति / नाभीरन्धे विहितवसतिर्योऽस्ति कन्दर्पसर्प स्तन्मुक्तोऽयं स्फुरति रुचिर: किन्तु निर्मोकपट्टः // 43 // यः कामकामलविलुप्तविवेकचक्षुः स्वर्गाऽपवर्गपुरमार्गमवीक्षमाणः / ज्ञानाञ्जनं प्रति निरादरतामुपैति भ्रातः पतिष्यति स भीमभवान्धकूपे 44 भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् / यतश्छायाप्येषां प्रथयति महामोहमचिरा- . दयं जन्तुर्यस्मात् पदमपि न गन्तुं प्रभवति . // 45 // सोमप्रभा चार्यमभा च यन्न पुंसां तम:पङ्कमपाकरोति / तदप्यमुष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् // 46 // // 45 // श्री धर्मघोषसूरिकृतः - ॥ऋषिमण्डलस्तवः // भत्तिभरनमिरसुरवरकिरीडमणिपंतिकंतिकयसोहे / उसभाइजिणवरिंदाणं पायपंकेरुहे णमिमो निज्जियपरीसहचमुं संभग्गुवसग्गवग्गरिउपसरं / संपत्तकेवलसिरिं सिरिवीरजिणेसरं वंदे // 1 // // 2 // 275