________________ // 169 // दानन्दित्स चिकीर्ष सज्जनपथन्धित्सागमं स्वात्मनि, मा त्वन्धीप्स सुमित्स चान्तररिपून् पूजाम्प्रभोः सङ्कुरु / शीलं रक्ष मुमूक्ष मूढविषयान् पुण्यञ्चिचीषोत्तमम्, धर्म दिक्षु तितांस निर्मलगुणैः शीघ्रं शिवेच्छुर्यदि ध्यानकर्तुमघं खलन्दलयितुम्भोक्तुन्निजानुत्करान्, दोषान् दातुमपूर्वदानमवितुं शीलगुणानर्जितुम् / विद्यामभ्यसितुम्भवन्तनयितुं सत्सङ्गमासेवितुम्, मोहन्दारयितुम्मतिं न कुरुते यो ना पशुः हुं पशुः आलोच्य शास्त्रनिवहङ्कृपया गुरूणाम्, पंन्यासमुक्तिविमलेन हिताय पुंसाम् / दृब्धा च भावभरिता वरतत्त्वबोधतारिङ्गिणी गुणिजनैः सततं निपेया . // 170 // // 171 // // 2 // श्रीविमलप्रणीता ॥प्रश्नोत्तररत्नमाला // प्रणिपत्य वर्धमानं प्रश्नोत्तररत्नमालिकां वक्ष्ये / नागनरामरवन्धं देवं देवाधिपं वीरम् कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् / कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया . भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् / को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः / . किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् / कः पण्डितो विवेकी कि विषमवधीरिता गुरवः 25 // 3 // // 4 //