________________ // 6 // // 7 // किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव। मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः / का भववल्ली तृष्णा को वैरी नन्वनुद्योगः कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी। कः शूरो यो ललनालोचनबाणैर्न च व्यथितः // 8 // पातुं कर्णाञ्जलिभिः किंममृतमिव बुध्यते सदुपदेशः / किं गुरुताया मूलं यदेतदप्रार्थनं नाम ' किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन / किं दारिद्यमसंतोष एव कि लाघवं याच्या // 10 // किं जीवितमनवद्यं किं.जाड्यं पाटवेऽप्यनभ्यासः / को जागति विवेकी.का निद्रा मूढता जन्तोः // 11 // नलिनीदलगतजललवतरलं किं यौवनं धनमथायुः / के शशधरकरनिकरानुकारिणः सज्जना एव // 12 // को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या / किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः . // 13 // किं दानमनाकावं किं मित्रं यन्निवर्तयति पापात् / कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् // 14 // किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री / सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः // 15 // कोऽन्धो योऽकार्यरतः को बधिरो यः श्रृणोति न हितानि / ' को मूको यः काले प्रियाणि वक्तुं न जानाति . // 16 // किं मरणं मूर्खत्वं किं चानयँ यदवसरे दत्तम्। . आ मरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम् // 17 // 266