________________ सिद्धान्तानामिदमिह वचः सद्गुरूणाम्मुनीनां, ये स्वान्दोषान् गिरिवरसमान् नानुवीक्ष्यापरेषाम् / वीक्षन्ते हा खलु खलधियस्तन्तुभस्यापि तुल्यान्, ते वै मूढा जनिरपि हता श्वभ्रभाजां हि तेषाम् - // 163 // लाम्पट्यन्त्यज जीव जीव विषयेष्वाशूत्पथं मुञ्च च, गन्तुञ्चेन्मनसोऽभिलाष इहू ते श्रेयःपुरी दुर्लभाम् / उद्यानन्तरुपल्लवैरवचितन्नो वह्निना रक्ष्यते, तद्वद् विद्धि कषायमोहविषयों प्राप्यते सत्सुखम् // 164 // निर्विघ्ने पथि यान्पुमान् गतभयः प्राप्नोत्यभीष्टम्पदम्, विघ्नार्ते खलु शीर्यते प्रतिपदं व्याधूयमानः खलैः / सद्बुद्धिर्यदि चेत् सखे ! व्रज चलं शिष्टाध्वना त्वं सदा, नो चेदक्षमहारिहेतिसुहतो दुःखं त्वया प्राप्यते // 165 // प्रोत्तुङ्गचलशैखरेऽमरपुरे दिव्यर्द्धिसौख्यप्रदे, काष्ठान्ते गिरिकन्दराष्वथ बिले यत्राऽपि कुत्रापि वै। रे रे जीव प्रयाहि किञ्च प्रबलै! मुच्यसे कर्मभिः, तस्मात्त्वं तकमुक्तये भज विभुन्त्रैलोक्यनाथञ्जिनम् . // 166 // नाहङ्कस्य न मे निजार्थपटवो दारादयो बान्धवा, .. राज्यम्मा विषयाः कषायनिवहाः क्रोधादयो वैरिणः / सन्मार्गम्प्रतिजग्मुषः क्षतिकराः स्थूला इमे कण्टका, एतान्साधुविचारसूचिनिवहैर्निष्कास्य गच्छेप्सितम् // 167 / / भ्रातर्भो ! भवपान्थ ! सज्जन ! सखे ! रे जीव ! शुद्धाशय! कौसङ्गं हर सङ्गमावृणु सताम्वृत्ति विरागाङ्कुरु / भोगान्मुञ्च गृहाण साधुचरितं ज्ञानश्रियञ्चार्जय, चित्ते चिन्तय तीर्थपं व्रज शिवन्त्यक्त्वाऽखिलं बन्धनम् // 168 // 24