________________ // 157 // // 158 // // 159 // सत्सङ्गः साधुसङ्घः सुकृतपथमतिस्तत्त्वचिन्ता विवेकः, सारल्यं शिष्टवर्गे प्रशमरसगतिर्ज्ञानपीयूषलिप्सा / वैराग्यश्चेन्द्रियार्थैर्मननमनुदिनञ्चात्मनो रम्यवृत्तिर्येषाङ्केषां समेषाञ्चरणमिति भवेन्नो भवानाम्प्रपीडा सज्ज्ञानं ध्याननिष्ठा वचनमधुरता सत्यताऽदम्भताऽथ, शीलं सम्यक्त्वभावो मदनरिपुजयो मोहमायाविरागः / आमूलं हुं कषायक्षयकरणमतिः साधुता सच्चरित्रम्, येषामेतानि रत्नान्यनुदिनसविधे सन्ति रत्नैः परैः किम् प्रातः प्रातः प्रतिदिनमघवातविच्छेदहेतोरुत्थायाय॑न्त्रिदशपतिभिश्चिन्तयेत्तीर्थनाथम् / कर्तव्यं स्वन्तदनु चिनुयात् सद्धिया स्वात्मकोशे, कोऽहआता जनिरिह कुले कस्य मे किञ्च कार्यम् कार्यकार्यनिजहितकरं लोकतो नो विरुद्धम्, . मत्सिद्धान्तान् सुगतिकरणान् भावयेद्वै निजान्तः / एवङ्कुर्वञ्जन इह सुखं साधु मुक्त्वा च भोगान्, ओत्य श्रेयोऽनुभवति मुदा प्राप्तचारित्ररत्नः लब्ध्वा देहं विरचय सदा देवपूजाम्प्रशस्ताम्, . सव्यं शीलं विमलमनसा पालय त्वं शिवार्थी / . दानम्पात्रे कुरु नय मनो नीतिमार्ग खलांस्त्व, समक्रोधादिप्रबलरिपून् ज्ञानशस्त्रेण भिन्धि कारुण्यङ्कौ विदधत जनाः प्राणिषु स्वात्मबुद्ध्या, नो वाऽनिष्टङ्कुरुत मनसा स्वल्पमप्यत्र केषाम् / निन्द्यां निन्दां शिवतरुदवां नो कुरुध्वं विदध्वम्, देश भव्याः परहितमलं स्वात्मचिन्तान्तथान्तः . 23 // 160 // // 161 // // 162 //