________________ मालिन्यपांसूत्करवारिधारं, खलाक्षवर्गेभमहामृगेन्द्रम्। मनोवनौको दृढशृङ्खलं शं विरागमेवाश्रय मुक्तिगेहम् // 146 // वैराग्यपूताध्वगतिङ्कुर्वन् ना, न पीड्यते क्लेशककण्टकाद्यैः / सुखद्रुमूलानि भजन् यथेच्छम्, पिबंश्च शान्तिजलमेति मोक्षम् 147 कर्मारिवाराचलशकशस्त्रम् महामहामोहतमोदिनेशः। कषायदावानलवारिवाहो, विभाति वैराग्यपथोऽत्र चैकः // 148 // भिन्ते पुरा मोहमथोऽभिसङ्गं, सह स्वकीयैरनुमुञ्चतेऽसौ, प्रपञ्च एषोऽत्र मुधा समस्तो, धियेति वैराग्यमतिर्जहाति // 149 // त्यक्त्वाऽखिलं स्वात्मरतिः प्रशान्तः, प्रकाशते सूर्य इवान्धकारम् / विनाशयन् स्वात्मगभस्तिजालैरनादिकालस्थितिमोहराशिम् // 150 // राज्यं रजःपुञ्जनिभं विलोक्य, जहाति भोगान् विषमान् समस्तान्। .. इमाः सुरामा भवबन्धनाय, नरोऽत्र मत्वा न च सज्जते वै // 151 // चेतोऽन्तरे यस्य विरक्तिभावः, फलन्ति तस्येह मनोरथा वै। क्रियाः समस्ताः सफलास्तदीयाः, परा गजस्नानमिवात्र बोध्या 152 जिनानां सुपूजा गुरूणामुपास्ति, या विश्ववर्गे सुपात्रेषु दानम्। श्रुतालौ गुणेषु प्रभूतानुरागः, फलञ्चारुः चैतन्नरद्रोरमुष्याम् // 153 // पुरा सङ्गतिः साधुभिःसाधुचित्तै-विधेया धियाऽनुश्रुताभ्यासवृत्तिः / ततः सत्यपन्थाः सदा चादृतव्यस्ततस्तेन यायी भवेल्लब्धजन्मा 154 व्रतं साधुसत्कङ्गुरूणां निदेशं, विनम्रः सुशान्तः सदा पालयित्वा / धरण्यां शरण्याञ्चरन् शिक्षयेच्च, सुवाण्या जिनाज्ञा हृदा धारणीया 155 त्यागः श्लाघ्यो रमाणाङ्गुरुचरणनतिमौलिनाऽस्ये सुवाणी / कर्णाभ्यां शास्त्रतत्त्वं समधिगतमलं स्वच्छवृत्तिर्हदब्जे / चञ्चद्दोर्दण्डमध्ये विलसति नरता नेत्रयोर्देवमूर्तिदेहेनास्योपकारः सुप्रकृतिमहताम्मण्डनं रम्यमेतत् // 156 // 22