________________ // 140 // // 141 // // 142 // सवृत्तिः शशिभासुरा ह्यपि मनोवाञ्छाप्रदा निर्मला, सदृष्टिविमलाशयां शमयुता विघ्नौघसंमर्दिनी / सच्छीलोत्तमदेहपूजितपदा श्रद्धापयोधारिणी, कल्याणाध्वप्रवर्तिनी शिवगतिः स्यात्कामधेनुस्तपः शान्तो दान्तो यदि लवमपि स्वमनोवेदिकायाम्, कश्चिज्जीवो विगतविषयो भावनां मुक्तिकामः / गेहेऽरण्ये क्वचिदपि रहो भावयत्याशु मोक्षं, यातीहायं परमसुखदं भूपप्रासेनवच्च ऊषायाङ्कौ जलधरकृपा दानराशिः कुपात्रे, शिक्षामूढे कुकुलतनये राज्यभारः खलानाम् / सेवाभावः शमरसमुनौ भामिनीनाङ्कटाक्षाः मोघास्तद्वत्सुकृतसरणिर्भावनाम्भो विनात्मन् ! विद्याऽधीता बहुतरधनं दत्तमर्थिभ्य एव, . यात्रा पुण्या त्वपचितिरति ज्ञानभाजामकारि। . भक्तिः पूजाऽध्ययनममलम् सद्गुरूणां व्यधायि, मालाजापो यदि न हृदये भावना व्यर्थमेतत् पुण्योद्याने विमलसरसी शान्तिशर्माच्छवेदी, सध्यानाप्या शिवपुरकरी वाञ्छितार्थामरद्रुः / . चेत:शुद्धौ प्रबलसुतपः पापपङ्कोष्णरश्मिः, . भाद्रं सर्वं वितरति सतां भाविता भावनैका पापे पुण्ये तूभयफलदा भावनैका निदानम्, काले यस्मिन्मनुज इह वै भावनां यादृशीञ्च / सगाद् द्वेषात्तकसमफलं भावयत्यत्र सत्यम्, ग्रामोत्येवं शिवपदधिया सा जनैर्भावनीया // 143 // // 144 // // 145 // 21