________________ त्वल्लब्ध्यै रचयन्ति वादमनिशङ्कुर्वन्ति राज्ञाम्पुरः, वाणीश्चाटुतरानति चिदधते मुञ्चन्ति मानं स्वकम् / वंशख्यातिगुणादिकीर्तनमलङ्कुर्वन्ति विज्ञा अपि, लोले क्लेशनिधे ! विवादमुखरे त्वच्चेष्टितन्धीपरम् // 128 // लब्ध्वा त्वाकृतिनो व्ययन्ति च वृषे भोगोपभोगेषु वा, दीनेभ्यः श्रुतपोषणाय ददते मानं विहायादरात् / तेषान्त्वं सुखदायिनी च जननी नो चेत्त्वरा त्वाम्भुवि, चाम्भः प्लावयतेऽनलो हि दहति प्रत्यर्थिभिर्गृह्यते // 129 / / अंहो हन्ति ददाति निर्मलयशः शुद्धिन्तनोत्यान्तरीम्, पुण्यम्भूतिप्रदन्तनोति वितरत्यायुः सुखं यच्छति / भिन्नेऽनीतिमपाकरोति खलताम्पुष्णाति प्रीतिम्पराम्, वात्सल्यन्तनुते चिनोति चरितं दानं सुपात्रे कृतम् // 130 // दानं श्लाघ्यतमन्तदीयमहिमा व्यावय॑ते कैरिह, .. येऽवश्या वशिनो भवन्ति सुतरां ज्ञातीयवर्गा इव / शाकुन्तास्तुरगा मदान्धकरिणः कण्ठीरवा द्विपिनमान्ये चापि मृगादिजन्तुनिवहास्तेनैव वश्याः सुखम् // 131 // दारिद्रयं कुयशो गदश्च जडता दैन्यन्दरश्वापदो, दौर्भाग्यञ्च पराभवः रिपुभवस्तापस्तथा त्रिविधः / नो पश्यन्ति कदाऽपि पुण्यमहितं तिष्ठन्ति तस्मिन् गुणा, दानाध्येह विभूषणाञ्चिततनुं मर्त्यञ्चिरं राजते // 132 // बुद्धिः सागरकन्यका शुभगता प्रीतिर्यशो ज्ञानता, धैर्य वीर्यदये परार्थघटना स्वार्थच्युतिः शीलता / भाग्यनिर्जरभामिनी निजधिया कान्तेव दानप्रदम्, प्रीत्यालिङ्गति सेवते प्रीणयति क्रमाब्जभृङ्गी सती .. . 250