________________ अक्षाणां निकरं विना खलमतिर्जित्वा च यो दुर्दमम्, ध्यानं वाञ्छति सोऽत्र हन्त शुचिना पाकं विधित्सुस्तथा। वार्द्धिम्पोतकमन्तराऽतिगहनं तत् कराभ्यां तथा, ज्ञानं वाञ्छति वाऽथ सद्धियमृते सेवां विना सद्गुरोः // 122 // येनारुन्धि सुकीर्तिलोपनपटुर्लोलाक्षवर्गः खलः, दीप्यत्येष धरेशमौलिमुकुटे देवैनरैः स्तूयते / वीर्यम्भाति बिभेति चेन्द्रियगणश्चेतोरथाः कल्पिता, आयान्ति स्वयमेव सज्जनपथं सन्द्योतयत्यायुगम् // 123 // तातस्ते जलधिगंभीरप्रकृतिर्धाता सुधांशू रमे, * कान्ता त्वङ्कमले हरेर्नरवरैः कृताभिषेकोत्तमा / सर्वं साधु चलेति दूषणमहो केनार्जितकर्मणा, ज्ञातञ्चाचलवीचिसङ्गतपथेनैतत्त्वयि त्वागतम् // 124 // त्वन्मूला विभवा विभान्ति भुवने त्वन्मूलराज्यादयः, त्वन्मूलानि सुखानि वैषयभवान्यांनन्दता मानता। .. गालिस्थानमुपैति देवि ! तदपि प्रायो निदानन्त्वहम्, मन्ये याति यतो विहाय गुणिनं त्वं स्वैरिणीवाशु वै // 125 / / त्वं श्रीरस्ति ततस्त्वदाप्तिपथिकां दम्भप्रचारात्मिकां, सव्यूह रचयन्ति नीतिमखिला मूर्च्छन्ति ते मोहतः / राजानस्त्वितरेऽथवा तव कृते दुह्यन्ति मित्राण्यपि, दग्ध्वा प्रीतिवनं सुपालितमपि श्रीत्वं विचित्रन्तव // 126 // पद्मे खे शकुना इवार्थिमनुजम्मांसाश्रितम्पक्षिणं, त्वत्प्राप्त्यै खलु वेष्टयन्ति परितो व्याजेन तं नन्ति च / दायादा वसुधाधिपाः खलधियश्चौराः परे वञ्चकाः, हाहाऽनर्थपरम्परान्तव कृते कुर्वन्ति तस्मात्खलाः // 127 // " माहतः। 258